पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः ३०५ (वि.) अव्यथेति - न व्यथतेऽनयेति अव्यथा । ' व्यथ भयचलनयो: ' । अत्यर्थं चरति व्याप्नोतीति अतिचरा । 'चर' गतिभक्षणयोः' । 'पद्मसादृश्यात् पद्मा। चरति व्याप्नोतीति चारटी। पद्ममिव चरतीति पद्मचारिणी । 'मेट्ट ( काश्मीरदेशपु ) 4 दामरपेल्लु' ॥ कम्पिल्याख्यदेशे भवः काम्पिल्यः । कटुतिक्तोष्णरूपत्वात् कृणोतीति कर्कश: ' | 'कृञ् हिंसायाम् ' । रोगहरणेन' चन्दयत्याह्लादयतीति चन्द्रः । 'चदि आह्लादने' । रक्तमङ्गमस्येति रक्ताङ्गः । 'रोचयति रक्तपर्णेनेति रोचनी । 'रुच दीप्तौ' । रोचनीनामानि । ‘कम्पिल्लमुपेल्लु' ॥ १४६ ॥ 1 न व्यथयति Ks, Kg. 4 • °मन्दलितामरपेरु' Ks. रोगहरत्वेन D2, J2, Kg. 2 ‘ चर गतौ ' D2, Kg. 5 कठिनत्वात् कर्कश: F2, Ptg. 7 रोचते Pt2. 8 °वर्ण° I. (पा.) अव्यथा - पद्मचारिणी | शेषे– 'पद्मावती गन्धमूला लक्ष्मीः श्रेष्टा च पुष्करा' । स्थलपद्मिनीनामानि । 'मेट्टदामर' ॥ काम्पिल्यः–रोचनीत्यपि । ‘रजतो रोहिताङ्गश्च कर्कशो रक्तचूर्णकः । करम्बः स्यात्' इतीन्दुः। काम्पिल्यनामानि । ‘कम्पिल्लमु’ ॥ १४६ ।। 3 पद्माभत्वात् K2, Kg 6 पित्त लष्मादिरोगिणो प्रपुन्नाटस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः । पद्माट उरणाक्षश्च पलाण्डुस्तु सुकन्दकः ॥ १४७ ॥ (वि.) प्रपुन्नाट इति–प्रकर्षेण पुमांसं नाटयतीति प्रपुन्नाटः। ‘प्रकर्षेण पुनातीति वा' । 'पूञ् पवने' । बलं प्रपुणतीति प्रपुण्णाट इति वा पाठः । 'पुण कर्मणि शुभे' । एडाभपुष्पत्वाद् एड: । गज्यत इति गजः । 'गज शब्दे' । एडश्चासौ गजश्च एडगजः । दद्रु रोगं हन्तीति दद्रुघ्नः । चक्राणि दद्रुमण्डलानि मृद्राति नाशयतीति चक्रमर्दक: " । ‘मृद' क्षोदे' । पद्मवद्धति चरतीति पद्माट: । 'अट पट गतौ' । उरणो मेषस्तदक्षिसदृशपुष्पत्वाद् उरणाक्षः । उरणाख्य इति वा पाठः । तदोरणस्य मेषस्याख्या अस्येति। पद्माटनामानि। 'तगिरसचेट्टुपेल्लु' || कफं पिपर्ति पूरयतीति पल|ण्डुः। 'प पालनपूरणयोः' । शोभनः कन्दोऽस्यास्तीति सुकन्दकः । पलाण्डुनामनी ॥ 'नीरुल्लि- पेरु’ ॥ १४७ ।। 6 6 1 2 D2, K5, Kg add कफहरत्वेन.. 4 B1, I, Kg add शब्द्यते; श्रेष्ठत्वात् F2, Pt2. 6 मर्दन: J2. 76 'मृद मर्दने' K3, Kg. 9 . केम्पुनीरुल्लि' J2. 20 प्रपुनाट: Kg, K3. 3 मेषाक्षितुल्यत्वात् K.. 5 Fg, Pto add 'हन हिंसागत्यो: '. 8 उरण स्यै डस्याक्षितुल्य पुष्पत्वात् B1, Ks.