पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः भूनिम्बना मानि। 'नेलवेमुपेल्लु' || सपति स्वावयवेषु समेता समवाये' । विगतं मलमनयेति विमला । सातं सुखं लातीति' सातला लातीति वा । भूरयः फेनविन्दवोऽस्याः सन्तीति भूरिफेना । चर्म कषतीति चर्मकषा। ‘कष हिंसायाम् ' । चर्मकसेति पाठे चर्म कसति वर्धतेऽत्रेति चर्मकसा । 'कस गतौ ' । सप्तलानामानि । 'सम्वरेनिपेल्लु' ॥ १४३ ।। 1 तिक्तरसश्च B1, Kg. 4 D2, K5, Kg add रोगाद्यपनयनेन. 2 समवैति Kg, Kg. 'संबरेणि' || १४३ ॥ 5 I, J2 add 'ला दाने . 'फेन।भविन्दुयुक्तेयं पश्चादेशसमुद्भवा । सातरिष्येव विख्याता गन्धद्रव्यं वणिग्धनम् || ' ३०३ ‘घप सतां सुखं सप्तला | 3 अस्याः D2, K5, Kg. (पा.) किराततिक्तो– अनार्यतिक्तः । भूनिम्बनामानि । ‘नेलवेमु’। अनुक्तम्– ‘ काकजङ्घा तु शार्ङ्गष्ठा' षडश्रा च विलोमिका। 'बेलमलन्दि' । स भूनिम्बावान्तर- भेदः ॥ अथ सप्तला— चर्मकपेत्यपि । चर्मेव कसति वर्धत इति चर्मकसेति दन्त्योपधः सुभूतिटीकायां व्युत्पादितः । सातलानामानि । 1 ' दास्यां षडश्रा शार्ङ्गष्ठा काकजङ्घा विलोमिका' इति वैजयन्त्याम् (पृ. ५४, श्लो. १११). 3 विलोलिका B3. 2 शाङ्गि॑िष्ठा B3. वायसोली स्वादुरसा वयःस्थाथ मकूलकः | निकुम्भो दन्तिका प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि ॥ १४४ ॥ (वि.) वायसोलीति – वायसवदुलति चलतीति वायसोली । 'उल संचलने '। अवलीयत इति वा । 'ली श्लेषणे' । स्वादू रसोऽस्या इति स्वादुरसा । वयसि स्थीयतेऽनयेति वयःस्था । कायस्थेति पाठे काये बुध्ने तिष्ठतीति कायस्था 'ष्टा गतिनिवृत्तौ ' । वयःस्थानामानि । 'कारुगोलिमि' || 'मयते चित्रत्वात् मकूलकः । ‘मकि मण्डने' । रसाधारत्वेन निश्चित: कुम्भो निकुम्भः । कफादिदोषाः दाम्यन्त्युप- शाम्यन्त्यनयेति दन्तिका । 'दमु उपशमने' । प्रत्यक् तिर्यक् पर्णश्रेणयोऽस्याः सन्तीति 4 प्रत्यक्श्रेणी । उदुम्बरस्येव पर्णान्यस्या उदुम्बरपर्णी | दन्तिकानामानि | ‘दन्ति- चेट्टुपेल्लु’ ॥ १४४ ॥