पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्डः (पा.) सहस्रवेधी - शतवेध्यपि । अम्लवेतसनामानि । 'अम्लवेतसमु' । नमस्कारी – खदिरेत्यपि । वैद्यके- ३०२ ' रक्तपादी' शमीपत्रा समङ्गाञ्जलिकारिका । लज्जालुर्गण्डकारी च रास्ना खदिरिकेत्यपि || ' इति । अञ्जलिकारिकानामानि | 'मुणुगुदामर' ॥ १४१ ॥ J पूर्वार्धम् – घ. नि. ४. १०९. जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा । कूर्चशीर्षो मधुरकः शृङ्गहखाङ्गजीवकाः ॥ १४२ ।। (वि.) जीवन्तीति - जीवन्ति प्राणिनोऽनयेति जीवन्ती । जीवनी | जीवा । जीवनीया च । 'जीव प्राणधारणे' । 'मधु स्रवतीति मधुस्रवा । 'स्रु गतौ' । जीवन्तीनामानि। 'पालकूरपेल्लु' || कूर्चवत् श्मश्रुबत् 'शीर्षमस्येति कूर्चशीर्षः । मधुरत्वात् 'मधुरकः । "श्रृङ्गाभावयवयोगात् शृङ्गः । 'ह्रस्वान्यङ्गान्यस्य ह्रस्वाङ्गः । जीवयतीति जीवकः॰ । जीवकनामानि । “जीवकमुसुगन्धद्रव्यमुपेल्लु' || १४२ ।। 3 ' स्र स्रवणे ' Pt 2. 6 शृङ्गयोगात् Fg, Pt2. हस्वावयवत्वात् Pt2. 8 Kg adds 'जीव प्राणधारणे . 9' जीवरमु' K2; 'जीवर' J2. 2 B1, Ja omit 3 lines. मधुकरत्वात् मधुकर: Ks. 5 1 F2, J2, Pte omit. 4 समशीर्षत्वात् F2, Pta. 7 (पा.) जीवन्ती - मधुस्रवा । जीवन्तीनामानि । ' चक्षुष्या सर्वदोषघ्नी जीवन्ती मधुरा हिमा ।' इति धन्वन्तरिः (ध. नि. १. १४१) । 'पालकूर' ॥ कूर्चशीर्षो - जीवकाः । शेषे- ‘दीर्घायुः’ सर्जकः स्वादुः प्राणदश्चिरजीव्यपि ' । जीवकनामानि । 'जीवकमु ' ॥ १४२ ॥ 1 ‘ ह्रस्वाङ्गो मधुरः स्वादुः प्राणदश्चिरजीव्यपि ' इति ध. नि. १. १२३. किराततिक्तो भूनिम्बोऽनार्यतिक्तोऽथ सप्तला | विमला सातला भूरिफेना चर्मकषेत्यपि ॥ १४३ ॥ (वि.) किराततिक्त इति - - तिक्तरसयोगात् तिक्त:, किरातदेशे भवस्तिक्तः ` किराततिक्तः । भुवि निम्बो भूनिम्बः । अनार्याः किराताः तद्देशे भवस्तिक्तः' अनार्यतिक्तः ।