पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः कर्पूरको द्राविडकः काल्यको वेधमुख्यकः । ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ॥ १३५ ।। २९७ (वि.) कर्पूरक इति – कर्जति रोगानिति कर्पूरकः । 'कर्ज व्यथने' | द्रावयति रोगानिति द्राविडकः । 'द्रु गतिहिंसा कौटिल्येषु' । कल्यं निरामयं करोतीति काल्यकः। प्लीहादिरोगवेधे' मुख्यत्वात् वेधमुख्यकः । 'व्यध ताडने' । कर्पूरकनामानि । ‘गन्धकचोरमु’ ॥ जातिमात्रे' फलपाकादिव्यक्तिमात्रे वर्तमान ओषधिशब्दः इकारान्त ईकारान्तो वा स्त्रीलिङ्गो भवति । अजातौ फलपाका दिव्यक्तेरन्यत्र वर्तमान ओषधिशब्द: औषधमित्यकारान्तनपुंसकलिङ्गो भवति ।। १३५ ।। 1 कृन्तति Ks, Ke; 'कृति छेदने' Da, Kg. 2 भेदकत्वात् B1, Kg. 3 लतादिजातय ओषध्यः न तु त्रिफलादयः । अजाताविति लतादिजातेरन्यत्र यत्किमपि रोगापन- •यनकरं तदौषधम् Ptg. (पा.) कचूरको – वेधमुख्यकः । द्रव्यावल्याम्— 'कर्पूरो गन्धमूलश्च द्रविकः' काल्य± एव च। वेधमुख्यो दुर्लभश्च कस्यचित्संमता 'शटी || ' इति। कर्चूरनामानि। ‘कचूरमु’ || ओषध्यो – स्युः । वनस्पतिवानस्पत्यक्षुपोलपलता- तृणत्वक्सारादिभेद॒द्भिन्नोद्भिज्जातिमात्रे ओषध्यो वर्तन्ते । 'कृदिकाराद्...' इति’ वा डीषू। ‘ओषध्यः फलपाकान्ता लता गुल्माश्च वीरुधः' इति काशिका (पृ. ४४९, सू. ८. ४. ६) । उद्भिज्जातिनाम । 'चेट्लु मोदलयिनवि' ॥ अजातौ - औषधम् । रोगहरं फलमूलघृतचूर्णक्षौद्रादिसर्वमौषधं स्यात् । 'ओषधेरजातौ' (५. ४. ३७) इत्यण् । 'मन्दु' ॥ १३५ ।। 1 द्राविड, कार्य:, सढी इति ध. नि. ३. ९४. 2 गणसूत्रम् under 4. 1. 45. शाकाख्यं पत्रपुष्पादि तण्डुलीयोऽल्पमारिषः । बिशल्याग्निशिखानन्ता फलिनी शक्रपुष्पिका ॥ १३६ || (वि.) शाकाख्यमिति – शक्यते भोक्तुमनेनेति शाकम् । 'शक्ल शक्तौ' । पत्रपुष्पादि शाकाख्यं शाकनामकम् । अत्र श्लोकः–