पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ अमरकोशः सुन्दरी च मरुत्कोटिवर्षा निर्मालिका वधूः । लङ्कोपिका ब्राह्मणी च निर्माल्या पिशुना तथा || ' इति । स्पृक्कानाम।नि। ‘पिक्कचेट्टु' ।। १३३ ।। तपस्विनी जटा मांसी जटिला लोमशा मिसी । त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोदं वराङ्गकम् ॥ १३४ ॥ (वि.) तपस्विनीति - जटायोगसाम्यात् तपस्विनी | जटा: सन्त्यस्या इति । जटा। जटिला च । मांससदृशावयवत्वात् मांसी । जटामांसीति वा पाठः । लोमानीव जटा अस्याः सन्तीति ' लोमशा । मस्यतीति मिसी' । 'मसी परिणामे' । जटामांसी- नामानि । 'जटामांसिअनेडि गन्धद्रव्यमु' || त्वग्भूयस्त्वात् त्वक् । त्वचं च । पत्रमिश्रितत्वात् पत्रम् । अतितीक्ष्णत्वाद् उत्कटम् । भृङ्गका र्ण्यसाम्याद् भृङ्गम्। अग्निं चोदयतीति चोदम्। ‘चुद प्रेरणे' । चोचमिति वा पाठः । वरं 'श्रेष्ठमङ्गमस्येति वराङ्गकम् । वराङ्गकन।मानि। ‘‘लवङ्गपुचेट्टु’ ॥ १३४ ॥ 1 अवयवयोगात् Ks, Ko; 3 आमिषीति वा पाठ: K5, Kg. त्वक्प्रचुरं. 6 ' लवङ्गदहेसरु' J2. साम्यावयवत्वात् F2, Pt2. [द्वितीयकाण्डः 4 ' जटामांसिवेम्बगन्धद्रव्य' J2. ' स्त्रियां तपस्विपिशितपिशाचाम्बार्थवाचकाः । तथा भूतजटा कृष्णजटा हिंस्रा च पूतना || ' 1' जटा' इति मुद्रितग्रन्थे. (पा.) तपस्विनी – मिसी । 'स्यान्मांस्यां शतपुष्पायां मधुरायां मिसी स्त्रियाम्' इति रभसकोशपाठात् मिसी । 'जटिला लोमशी मांसी तपस्विन्यामिषी मिषी1’ इति वैजयन्तीपाठात् (पृ. १३१, श्लो. १००) मिषी । शेषे– 2 लोमयोगात् F2, Pt2. 5 J2, K3 add स्त्रियां वर्तमानास्तपस्व्यादिपर्याया जटामांसीनामानि भवन्ति । यथा तपस्विनी तापसी पिशिती मांसी पिशाची क्रव्यादी अम्बा माता जननीत्यादयः । जटामांसीनामानि । ‘जटामांसि’ ॥ त्वक्पत्रं – वराङ्गकम् | त्वक्पत्र मेकपदमिति केचित् । 'मुखरोदं प्रियं वर्णं वल्कं सुरभिवल्कलम्’ इति वैद्यके | लवङ्गद्रुमत्वचो नामानि। ‘लवङ्गपुचेक्क’ ॥ १३४ ॥