पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४ अमरकोशः कुटन्नटं दाशपुरं वानेयं परिपेलवम् ॥ १३१ ॥ लवगोपुरगोनर्दकैवर्तीमुस्तकानि च । ग्रन्थिपर्ण शुकं बर्हपुष्पं स्थौणेयकुक्कुरे ॥ १३२ ॥ (वि.) कुटन्नटमिति – कुटन् वक्रीभवन्नटतीति कुटन्नटम् । ‘नट 'नृत्तौ' । दशपुराख्यदेशे भवं दाशपुरम् । वनं जलमत्रास्तीति वानम् । वाने जलाशये भवं वानेयम्'। कोमलत्वात् परितः पेलवं परिपेलवम् । लघुतया लवत इति प्लवम्। ‘प्लुङ् गतौ॰'। अभक्ष्यतया गवां 'पुरति अग्रे तिष्ठति' गोपुरम्' । 'पुर अग्रगमने' । 10 अरुचित्वेन गा नयति क्रोशयतीति 11 गोनर्दम् । 'नर्द शब्दे ' । केवर्तानां मत्स्यानां 1 2 भक्षणमिति कैवर्ती । मुस्यते वराहैरिति मुस्तकम् । 'मुस खण्डने' । कैवर्तमुस्तकं तदिति वा पाठः । तथाष्टमं नाम त्रिलिङ्गम् । एवं भिन्नलिङ्गानां द्वन्द्वः कृत इति नावगन्तव्यम् । कैवर्तीमुस्तकनामानि । 'तुङ्गमुस्तलुपेल्लु' || ग्रन्थिषु पर्णान्यस्मिन् सन्तीति 14ग्रन्थिपर्णम्। शुकवत् पत्राण्यस्य शुकम् | बर्हतुल्यपुष्पत्वात् बर्हपुष्पम् । केचित्तु शुकबर्हमिति पठन्ति । तदा शुकस्य बर्हाणीव पत्राण्यस्येति विग्रहः । पुष्ष्यतीति पुष्पं च। ‘पुष्प विकसने’। स्थूणाकृतित्वात् स्थौणेयम् । 'शुनकाकारत्वात् कुक्कुरम् । ग्रन्थिपर्णनामानि || 6 17 स्थौणेयमनेडि गन्धद्रव्यमु' ।। १३१ - २ ।। 61 1 कुटति J2. कोमलत्वात् B1, J2, Kg. 8 सरतीति K3. 2 ' नट स्पन्दने' F2, Ptg. 5 लघुत्वात् F2, Pt2. 9 गौर्जलं पुरं संस्थानमस्येति Pt2. 12 अदनं F2, Pt2. K 11 गोनर्द: D2, K2, K3; गोनर्दी Kg. 14 ग्रन्थिप्रधानानि पर्णानि D2, [द्वितीयकाण्ड: 3 वने जले जातं Pt2. 6 जलोपरिसर्पणे च J2. I, K5, Kg. 16 श्वाकृतित्वात् Ks, Kg. 17 ' स्थौणेयवेंब गन्धद्रव्य' J2. 4 अति- 7 पुरत: J2. 10 रुचिकरत्वेन Ptg. 'प्लवनं कर्तनं मुस्ता सुगन्धिः कर्णपूरकः । शकुलादश्वेतमध्यो नादेयपिठरावपि ॥ ' 13 वातकफौ मुस्यतीति भ्रूणस्येव रूपं Ptg . 15 (पा.) कुटन्नटं – कैवर्तीमुस्तकानि च । कैवर्तीमुस्तकमित्येकपदम् । 'जायते मुस्तकाकार: शैवालदलसंचयः । कैवर्तीमुस्तकं नाम गन्धद्रव्यं तदुच्यते || ' इति ।। “कैवर्तीमुस्तके क्लीबं शोनके नाकुटं नट: ' इति च । कैवर्ती पृथक्पदमिति केचित् । रूपभेदात् स्त्रीलिङ्गम् । नपुंसकमपि । 'कैवर्त मुस्तकं तच्च तथा च करिवल्लभम् " इति तन्त्रान्तरोक्तत्वादित्याहुः । शेषे-