पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः ॥ १२७ ॥ कुणि: कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी । चण्डा धनहरी क्षेमदुष्पत्रगणहासकाः ।। १२८ ।। 6 (वि.) प्रपौण्डरीकमिति -- पुण्डरीकस्येदं पौण्डरीकम् । प्रकृष्टं पौण्डरीकं प्रपौण्डरीकम्। ’पौण्डर्यमिति "देशीयपदम् । पौण्डर्यनामनी । 'पुण्डरीकमनु गन्ध-

  • द्रव्यमु' || तुद्यते हस्तादिभिरिति तुन्नः | 'तुद व्यथने' । कुत्सितं 'वेरमस्यास्तीति

कुवेरकः । शाखाभङ्गात् कौतीति कुणि: ' । 'कु शब्दे ' । कष्यते गजैरितिं कच्छः। ' कप हिंसायाम् ' । कस्य 'जलस्यान्तं समीपं गच्छन्तीति कान्ता गजाः, तैलक्यत इति कान्तलकः । ‘लक आस्वादने' । नन्दिसंज्ञको वृक्षो नन्दिवृक्षः । नन्दिवृक्षनामानि । 'नन्दिवृक्षमु | वनचररा गन्धाढ्यां मूर्तिं रक्षन्तीति राक्षसी' । 'रक्ष पालने' । तीक्ष्णत्वात् चण्डा । राक्षसीनामसाम्यात् चण्डत इति वा । ‘चडि कोपे' । बहुमूल्य- त्वाद् 10 धनं हरतीति धनहरी । 'हृञ् हरणे' । दीपनत्वेन क्षेमकरत्वात् क्षेमः । क्षियति वसति गन्धोऽस्मिन्निति वा । 'क्षि निवासगत्यो : " | "दुष्टानि पत्राण्यस्य 2 दुष्पत्रः । दुष्पुत्र इति वा पाठ: । सौरभ्यातिशयेन सर्वजनमुखविकासकरत्वाद् गणहासक: 13। 'हसे हसने' । हासो विकासः । धनहरीनामानि । 'नल्लकचोरमु- पेल्लु ' ॥ १२७ - ८ ॥ 1 पुण्डरीकस्यैव रूपान्तरं K; प्रकर्पेण पुण्डरीकस्यैदं Fg, Ptg. अस्यैकदेशानुसारात्. 3 देशीयं I, K3. 5 Kg, Ke add शरीरम्. 8' नन्दिअनेडि वृक्षमु' Ks; 10 मूल्यत्वेन F2, Pt2. 13 गणं हासयतीति F2, Pt2. 11 २९१ 2 Pt₂ adds 4 ' पुण्डरीक वेम्ब औषध' J2. 7 उदकस्य G, K2. 9 रक्ष्यतेऽस्या: Fo, Pto. 12 पुष्पाणि K3. 6 कुत्सितशा खात्वात् G, Kg. 'नन्दियेम्व वृक्ष' J2. दुष्टाः पुत्राः पत्राण्यस्य दुष्पुत्र: Kg, Kg. (पा.) प्रपौण्डरीकं पौण्डर्यम् । द्रव्यावल्याम्– 61 प्रपौण्डरीकं चक्षुष्यं पुण्डर्य पुण्डरीयकम् । पुण्डरीकं श्वेतपुष्पं सुपुष्पं साधुमूलकम् । मूलसाधनसंज्ञं च श्रीपुष्पं पुण्ड्रकाह्वयम् ॥' इति ।। ‘पौण्डर्यकं सालपुष्पं दृष्टिकृत् पुण्डरीयकम्' इति रभसकोशः । पुण्डरीकाख्य- गन्धद्रव्यनामानि । 'पुण्डरीकमन्नगन्धद्रव्यमु | अदे सालपुष्पमुन्नु' ॥ अथ तुन्नः –