२८८ , अमरकोशः दैत्या गन्धकुटी मुरा । गन्धिनी गजभक्ष्या तु सुवहा सुरभी रसा ॥ १२३ ।। महेरणा कुन्दुरुकी सल्लकी ह्लादिनीति च । शैलेयं तालपर्णी तु (वि.) बालमिति – चलते भुवं मूलबाहुल्यात् बालम् । 'वल संवरणे संचलने च' । निगूढत्वेन ह्रीयुक्तमिव बेरमस्येति हीबेरम् । बर्हति वर्धत इति बहिष्ठम् । 'बृह 'वृद्धौ' । उदग्देशे भवमुदीच्यम् । केश नामम्बुनां च नामान्यस्य सन्तीति केशाम्बुनाम | ह्रीबेरनामानि । ‘‘कुरुवेरुपेल्लु' || शीतोष्णाभ्यां॰ कालोऽनुसर्यतेऽनेनेति कालानु- सार्यम् । चिरस्थितत्वात् वृद्धम् । अश्मनः पुष्पमिव अश्मपुष्पम् । शीतवीर्येण शिवं शीतशिवम् । शिलायां भवं पुष्पं शैलेयम् । शैलेयनामानि । “रातिपुव्वुपेल्लु' ॥ तालस्येव पर्णान्यस्या इति तालपर्णी । 'मुराख्यदैत्यनामास्या अस्तीति दैत्या । 10 गन्धस्य कुटी गृहं गन्धकुटी । मुरतीति मुरा । 'मुर वेष्टने। मुराख्यदैत्यनामयोगाद्वा । प्रशस्तो गन्धोऽस्या अस्तीति गन्धिनी । गन्धकुटीनामानि । 'मुरयनुगन्धद्रव्यमुपेल्लु' ॥ गजैर्भक्ष्यत इति गजभक्ष्या | 'भक्ष अदने' । सुष्टु वहत्या मोदं सुवहा । 'वह प्रापणे ' 1 व्राणतर्पणगन्धत्वात् सुरभिः । बहुरसयोगाद् रस्यत इति रसा । महदीरणं प्रेरणं गजानां भक्षणेऽस्या इति महेरणा । ' ईर प्रेरणे' । कुं भुवं द्यति मूलैरिति कुन्दुरुकी। 'दो अवखण्डने' । सत्कृत्य लक्यते आस्वाद्यते गजैरिति सल्लकी । 'लक आस्वादने' । ह्लादोऽस्या अस्तीति ह्लादिनी । हादिनीति वा पाठः । सल्लकीनामानि। ‘अन्दुगुचेट्टु- पेल्लु' ॥ १२२ - ३ ॥ [द्वितीयकाण्डः 1 जिह्वेति वर्तत इति । ‘ही लज्जायाम् ' । धातूनामनेकार्थत्वाद् वर्तमानार्थोऽवगन्तव्यः K5, Kg. 2 वर्धयति J2. 3 ‘ बृह बृंहि वृद्धौ' D2, K5, Kg. 4 उदीच्यानामति- शयेन भवति F2, K5. 7 स्थायित्वात् Pt 2. श्रयत्वात् K5, Kg. 8 5' मुरिबाल' J2. कलपूवु' J2. 11 गजभक्षा Ks, Kg. 1 Bg adds ह्लादिनीति वा पाठ: 6 हिमत्वात् हेमन्तकालमनुसरति K5, Kgr 10 गन्धा- 9 मुरदैत्यनामयोगात् F2, Pt2. (पा.) बालं– केशाम्बुनाम च । हीबेरनामानि । 'कुरुवेलु' || कालानुसार्य – शैलेयम्। शैलेयनामानि। 'रापुव्वु' । दैत्या — गन्धिनी । मुरानामानि । 'मुर अने गन्धद्रव्यमु’ ॥ गजभक्ष्या – सुरभी रस। । 'ठूलोपे...' (६. ३. १११) इति दीर्घः ! महेरणा—'ह्वादिनीति च। सल्लकीनामानि | ‘अंदुगचेट्टु' । तस्य निर्यासो गन्धद्रव्यम् ।। १२२ - ३ ।।
पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३६०
दिखावट