पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः २८५ इति । 'चिविविक' ॥ धामार्गवो - पीतकः | पीतकनामानि । 'आरवीर' । स इति सर्वनामनिर्देश: सांकर्यनिरासार्थः ॥ ११७ ॥ 1 खरगन्धिनिकेति धन्वन्तरीयनिघण्टौ (१. २८४). 2 खण्डा ibid. ज्योत्स्नी पटोलिका जाली नादेयी भूमिजम्बुका । स्याल्लाङ्गलिक्यग्निशिखा काकाङ्गी काकनासिका ॥ ११८ ।। (वि.) ज्योत्स्नीति – ज्योत्स्नेव रात्रौ 'भासते ज्योत्स्नी' । पटति विस्तीर्यत इति पटोलिका | पटं पटसदृशं पुष्पसमूहम् उलत्यावृणोतीति वा । 'उल आवरणे'। पुष्पे 'जालसदृशत्वात् जाली । पटोलिकानामानि । 'पोट्लचेट्टुपेल्लु' ॥ नद्यां भवा नादेयी। भूमौ जम्बूः भूमिजम्बुका | नादेयीनामनी ॥ 'लाङ्गलवद् गर्भभेदकत्वात् 'लाङ्गलिकी । अत एवाने: शिखेव तिष्ठतीति अग्निशिखा' । लाङ्गलीनामनी । 'तर 10 गोट्टु चेट्टु' ॥ काकाङ्गसदृशफलमस्या अस्तीति काकाङ्गी । काकनासिकासदृशफलमस्या अस्तीति काकनासिका । काकना सिकना मनी । 'काकिदोण्डचेट्टु’ ॥ ११८ ॥ 2 अवभासते B1, Kg. 2¢ भातृ दीप्तौ ' G, F2. 3 विस्तार्यते G, I, K3, Kg. 4 ' पट गतौ ' F2; 'पट विस्तारे' Ks, Kg. 5 जालवत्त्वात् K5, Kg. 6 जायते, 8 लाङ्गली Pt2. १ ( 'जनी प्रादुर्भावे' D2, Kg, Kar 7 लाङ्गलीव F2, Pt2. 10 ‘ तरियोरी' J2. 11 काकस्येवाङ्ग फलमस्या: 9 उष्णवी र्यत्वादग्निशिखा F2, Pt2. F2, Pt2, 12 °नासा° K5, Kg. (पा.) ज्योत्स्नी – जाली । पटोलिकानामानि । 'चेन्तिपोल्ल’। अनुक्तम्— ‘बहुजाली कोकफला' | 'अडविबीर' ॥ नादेयी – जम्बुका । भूमिजम्बूनामनी । ‘नेलनेरेडु’॥ स्यात्–अग्निशिखा । लाङ्गलिकीनामनी | ‘तरिगोर्' || काकाङ्गी- नासिका । वैद्यके’—‘काकतुण्डफला च सा । सुरङ्गी तस्करस्नायुर्ध्वायतुण्डफला मता' ॥ प्रतापे- 'काकजङ्घा नटी दासी काकसव्यपि लोमका । पारावतपदी स्यातां पुंसि काण्डप्रचीवरौ ॥' इति ॥ ' वन्यबिम्बी तु काकाङ्गी' इति गौडः । वैजयन्त्याम् (पृ. ५४, श्लो. १११) 'दास्यां षडश्रा शार्ङ्गष्ट काकजङ्घा विलोमिका' इति । वन्यबिम्बीनामानि । 'काकिदोंड' ॥ ११८ ॥ 1 धन्वन्तरीयनिधण्टुः (४. २५). 2 शार्ङ्गष्ठा Bs.