पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्ड: (पा.) विदारी - ध्रुवा । विदारीगन्धानामानि | 'मुय्याकुलपोन्न' । तुण्डिकेरी – बद्रेति च । बदरं फलमस्यां बदरा । 'अर्शआदिभ्योऽच्' इति (५. २. १२७) सुभूतिटीकावचनाट्टाबन्तः। 'बदरं कोलकार्पास्योः फले स्याद्वदरी तयोः' इति विश्वप्रकाश वचनात् (पृ. १३४, लो. ११०) ड्यन्तः । 'कार्पासो बदरः प्रोक्तः' इत्यमरमालावचनात् पुंलिङ्गोऽपि । कार्पासीनामानि | ‘प्रत्तिचेट्टु' || भारद्वाजी – चन्या । वन्यकार्पासीनाम | ‘अडविप्रत्तिचेट्टु' । वैद्यके– २८४ 6 'तुण्डिकेरी' समुद्रान्ता केसरा बदरा फला । कार्पास्यक्लचत्र वन्यायां भारद्वाज्यपि कुष्ठनुत् ॥' इति । शृङ्गी–वृषः । वृषभाख्याया ओषधेर्नामनी । 'वृषभकमु ' ॥ ११५-१६॥ 1 ' तुण्डिकेर्या रवा शीरा केसरा बदराफला' इति मुद्रितवैजयन्त्याम् (पृ. ५३, श्लो. ९९). गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका | धामार्गवो घोषकः स्यान्महाजाली स पीतकः ।। ११७ ।। । (वि.) गाङ्गेरुकीति–गङ्गाया इदं गाङ्गम् । जलमित्यर्थः। तस्मिन्नीरयति प्रेरयतीति गाङ्गेरुकी । अथवा पवित्रत्वाद् गङ्गास्मरणफलमीरयतीति वा । ‘ईर क्षेपे' । नागानां गजानां 'बलकृत् नागबला । झषति हिनस्ति रोगमिति झषा । ' झष हिंसायाम्' । ह्रस्वे स्वल्पे गवि जले एधत इति हस्वगवेधुका | 'एध वृद्धौ' । नागबलानामानि । ' ' जिबिलिकट्टु' || धाम कफस्थानं कण्ठादिकम् 'अर्जयतीति धामार्गवः । 'अर्ज अर्जने' । शुष्कदशायां 'घोषयति शब्दायत इति घोषकः । ‘घुषिर् विशब्दने’। `घोषवल्लीनामनी। ‘तेल्लपूवुल गल आवड चेट्टुपेल्लु' | 'महाजालं वितानमस्या अस्तीति महाजाली । पीतवर्णघोषवल्लीनाम | ‘पञ्चपूवुलयावडचेट्टुपेरु’ ॥ ११७ ।। 1 गङ्गायां K5, Kg• 5 तीक्ष्णगन्धेन हिनस्ति D2, F2, Kg. माति K6; 'मृजूष शुद्धौ' G, I. 2 गाङ्गेयं J2. 3 गाङ्गमीरयति Pt2. 6 ‘नागबलदहेद्यरु' J2. 8 घोषति J2. 4 बलं K5, Kg. 7 अर्जति F2; 9 महत् जालं Pt2. (पा.) गाङ्गेरुकी-हस्वगवेधुका | नागबलानामानि । वैद्यके— 'गाङ्गेरुकी नागबला नीरबन्धनिका झषा । विश्वदेवा तथारिष्टा 'खञ्जा हस्वगवेधुका || '