पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः ' वातिङ्गणस्तु वार्ताकुर्वार्ताकः शाकविल्वकः । भाण्डाकी राजकूश्माण्डी वार्ताकी दुष्प्रधर्षिणी || ' इति रभसकोशः । अनुक्तम् –'कटङ्काका राजमाता ' | 'वंग' ॥ नाकुली – सुवहा च सा । वैद्यके– 'नाकुली सर्पगन्धा च सुगन्धा चोग्रगन्धिका | अन्या महासुगन्धा तु सुवहा गन्धनाकुली || सर्पाक्षी नकुलेष्टा च छत्राकी विषमर्दिनी ।' 'नाकुली' सुरसा रास्ना सुगन्धा गन्धनाकुली ॥' इत्युक्तत्वात् सर्पाक्ष्या रास्नायाश्च नामानि । ' सर्पाक्षिरास्नानु ' ॥ ११४ ॥ 1 हिंङ्गुदीति मुद्रितग्रन्थे; वार्ताकुहिंङ्गुलुरिति १०२ श्लोके. 3 भावप्रकाशे (Apte 's Dict. p. 1341). (४. १०३-५ ) २८३. ± धन्वन्तरीय निघण्टुःः विदारिगन्धांशुमती सालपर्णी स्थिरा ध्रुवा ॥ ११५ ॥ तुण्डिकेरी समुद्रान्ता कार्पासी बदरेति च । भारद्वाजी तु सा वन्या शृङ्गी तु वृषभो वृषः ॥ ११६ ।। 1 दीर्घमूलरूपा अंशवः सन्त्यस्याः F2, Pt2. 3 तुण्डिकान् वदनगतरोगान् B1, F2, Ptg. 5 जनोपकाराय Fg, Pt2. 8 ‘ मडदियहत्ति' J2. (वि.) विदारिगन्धेति—विदार्या इव गन्धोऽस्या इति विदारिगन्धा। 'दीर्घा अंशवो मूलान्यस्याः सन्तीति अंशुमती । सालस्येव पर्णान्यस्याः सन्तीति सालपर्णी। ’तिष्ठतीति स्थिरा। ‘ष्ठा गतिनिवृत्तौ' । ध्रुवति स्थिरीभवतीति ध्रुवा । 'ध्रुव स्थैर्ये । सालपर्णीनामानि । ' मुय्याकुपोन्नपेल्लु' || 'तुण्डिकाद्वदनतो गवादीनीरयति प्रेरयतीति तुण्डिकेरी । ' ईर क्षेपे' । दूरप्रसरणात्' समुद्रान्ता । तन्त्वाद्यनेकलोकोपकाराय कल्पत इति कार्पासी। ‘कृपू सामर्थ्य' । बदर्या इव फलान्यस्याः सन्तीति बदरा। कार्पासीनामानि। ‘‘प्रत्तिचेट्टु' || भरद्वाजसृष्टत्वाद्' भारद्वाजी । वन्यकार्पासीनाम | ‘‘ अडविप्रत्ति’॥ वृषभशृंगाकारावयवयोगात् शृङ्गी | वृषभ: । वृषञ्च | ऋषभ इति वा पाठः । 'वृषभमहौषधमु' ।। ११५-१६ ॥ 1 2 दृढत्वात् स्थिरा D2, K5, Kg. 4 प्रसरात् Pt2; प्रसारात् B1, I, Kg.. 6 ' पत्ति' G1, I; 'हत्ति' J2. 7 भरद्वाजेन सृष्टा D2, K5, K...