पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः २७९ इतिवा, ‘वृतु 'वरणे' | त्रिवृच्च । कफहरत्वपित्तहरत्वरेचकत्वगुणैस्त्रिभिः प्रवृत्ति- निमित्तैर्भण्ड्यते' शब्द्यत इति त्रिभण्डी । 'भडि 'परिभाषणे' । रेचयति विरेचयति रेचनी। ‘रिचिर् 'विरेचने' | रेचनहेतुत्वाद्वा । रोचनीति वा पाठः । 'रुचिकरत्वात् रोचनी । रेचनीनामानि । 'तेल्लतिगडपेल्लु' || 10 श्यामवर्णत्वात् श्यामा । क्रिम्यादि- रोगेभ्यः पालयतीति पालिन्दी | 'पाल रक्षणे' । पालिनीति वा पाठः । सुष्ट सिनोति क्रिमीन् हन्तीति सुषेणिका । ‘षिञ् बन्धने'। 11 कालवर्णत्वात् काला । 12 मसूराणि मृष्टानि विदलान्यस्या इति मसूरविदला । 13 अर्धचन्द्रा कारदलत्वाद् अर्धचन्द्रा | 15 कालेति नाम्ना मिष्यते शब्द्यत इति कालमेषिका । 610 मिष स्पर्धायाम्' । श्यामा- नामानि | ‘नल्लतेगड पेल्लु' ॥ १८ ॥ 1 मधुरतिक्तादीनां सर्वरसानामनुभूतिरत्रेति Pt2. 3 वर्त्य J2. 4 आच्छादने K5, Kg. गुणानां वृत्तिर्वर्तनमत्रेति Pt2. 6 उद्घाट्यते K6. 9 रुचिरत्वात् B1, Kg. 10 कृष्ण ° Ptg. 11 12 मसूर इव विदला Pt2; मयूरविदलेति वा पाठ: Pt2. 14 सदृश for आकार F2, Pt2. 15 कालेन वर्णेन Fa, Pt2. 2 पुटत्रयशालिनीत्वात् D2, J2, Ks. कफहरणपित्तहरण रेचकत्वरूपाणां त्रयाणां 7 कल्याणे K5, Kg. 8 पृथग्भावे Pt2. कृष्णत्वात् I, K2; कृष्णवर्णत्वात् K, K.. 13 Pto adds कथंचित्. 16 ' मिश्र मिश शब्दे ' Kg. (पा.) सर्वानुभूति: – रेचनी । श्वेतत्रिवृतानामानि | 'तेल्लतेगड' || श्यामा- कालमेषिका । नीलत्रिवृतानामानि । 'नल्लतेगड' ।। १०८ ॥ मधुकं क्लीतकं यष्टिमधुकं मधुयष्टिका ॥ १०९ ।। विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्ट्री च या सिता | अन्या क्षीरविदारी स्यान्महाश्वेतर्क्षगन्धिका ॥ ११० ॥ (वि.) मधुकमिति – मधुकरत्वेन मधुसमत्वात् मधुकम् । क्लीबत्वं तकति 2प्रतिहन्तीति क्लीतकम् । ‘तक प्रतिघाते' । यष्टयाकारत्वात् मधुद्रवत्वाच्च यष्टिमधुकम् । मधुयष्टिका च। यष्टिमधुकनामानि । ' अतिमधुरमु' || विदारयति भूमिमिति ‘विदारी। ‘ट्ट विदारणे’। क्षीरेव' शुक्लेवामलस्वरूपेति॰ क्षीरशुक्ला। इक्षोरिव गन्धोऽस्या इक्षुगन्धा। ‘तेल्लनेलगुम्मुडु' ॥ रोगान् नाशयामीति क्रोशतीति क्रोष्ट्री’ । ‘क्रुश आह्वाने रोदने च’ । 'नल्लनेलगुम्मुडुपेल्लु' || विदार्यादीक्षुगन्धान्तानि नामानि क्रोष्टीनामानीति केचित् ॥ क्षीरवत् श्वेता विदारी क्षीरविदारी | स्वरूपतः कन्द्तश्च क्षीरतञ्च श्वेतत्वात् महाश्वेता । ऋक्षवत् क्रिम्यादिरोगान् गन्धयते नाशयतीति ऋक्ष-