पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ अमरकोशः शतमूली बहुसुताभीरुरिन्दीवरी वरी || १०० ॥ ऋश्यप्रोक्ताभीरुपत्रीनारायण्यः शतावरी । अहेरुरथ पीतद्रुकालेयकहरिद्रवः ।। १०१ ॥ दार्वी पचंपचा दारुहरिद्रा पर्जनीत्यपि । [द्वितीयकाण्ड: (वि.) शतमूलीति – शतं बहूनि मूलान्यस्याः सन्तीति शतमूली । बहवः सुता मूलान्यस्यात बहुसुता । न भीरुः अभीरुः, स्थिरपत्रत्वात् । उत्पलाभपत्रत्वाद् इन्दीवरी । भुवं मूलैर्वृणोतीति वरी । 'वृञ् वरणे' । ऋश्यैर्मृगैः प्रोक्ता 'आश्रिता ऋश्य- प्रोक्ता । ऋष्यप्रोक्तेति वा पाठः । अभीरूणि कम्पशून्यानि पत्राण्यस्याः सन्तीति अभीरुपत्री । 'नारायणाज्जाता नारायणी । शतमूलैरावृणोति भुवमिति शतावरी । ‘वृञ् वरणे' । न हिनोतीति अहेरु: ' । ' हि गतौ' । आहेरुरिति वा पाठो ग्राह्यः । शतावरीनामानि। ‘पिल्लपिच्चर पेल्लु' | पीतो द्रुः स्कन्धोऽस्येति पीतद्रुः । 'विरुद्ध- लक्षणया कालवर्णोऽस्येति कालेयकः | पीतवर्ण इत्यर्थः । कालयति दोषानिति कालीयक इति वा पाठः। ‘कल किल क्षेपे' | हरिश्चासौ द्रुश्च हरिः। 'दारुसंबन्धिनी दार्वी । अत्यर्थं रोगान् पचतीति पचंपचा। 'डुपचष् पाके' । 'दारोर्हरिद्रा दारुहरिद्रा । कुष्ठादि- रोगेभ्यः पिपर्तीति पर्जनी । 'पू पालनपूरणयो: ' । पर्जनीनामानि । ‘म्रानिपसुवु- पेल्लु' ॥ १०० - १॥ 1 पुष्पत्वात् K5, Kg. 2 दर्शिता F2, Ks, Kg. 4 विष्णुना सहजातत्वात् Ks; सहजत्वात् Ks; सहभावत्वात् B.. तत्वाद् अहेतु: Ke; अहेतुत्वात् G, J2. 6 K5 omits 3 lines. 8 दारुसंबन्धिनी Pt2. 3 दृढत्वेन भयरहितानि Pt2. 5 विरुद्धलक्षणया अहि- 7 दारो: Kg, Kg. (पा.) शतमूली-वृष्यप्रोक्ता । ऋष्यप्रोक्ता वा । ऋश्यप्रोक्तेति तन्त्रान्तरम् । भीरुपत्रीनारायण्यः । द्वन्द्वाद्बहुवचनम् । शतावरी । आहेरुः । अहेरुर्वा । शतावरीनामानि। ' आहेरुः शतवीर्या स्याद्मीरुः शतमूलिका । सहस्रवीर्याभीरुश्च । ' 6 इति प्रतापाभिधानाद्भीरुरपि । 'पिल्लपींचर' ॥ अथ पीतद्र – पर्जनीत्यपि । दारुहरिद्रा- नामानि । 'मानुपनुपु' ।। १०८ - १ ॥ 1 Reading adopted in B3..