पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ अमरकोशः [द्वितीयकाण्डः हञ्जिका ब्राह्मणी पद्मा भार्गी ब्राह्मणयष्टिका ॥ ८९ ॥ अङ्गारवल्ली बालेयशाकबर्बरवन्दकाः । (वि.) हञ्जिकेति – हन्ति यक्ष्माणमिति हञ्जिका । 'हन हिंसागत्योः' । भञ्जिकेति पाठे भनक्ति रोगं भञ्जिका । ‘भञ्जो आमर्दने' | 'ब्राह्मणीवत् पवित्रत्वाद् ब्राह्मणी । उपद्माभपुष्पत्वात् पद्मा । भृञ्जति कफादिकं नाशयतीति भार्गी । 'भ्रस्ज पाके'। 4 ब्राह्मणरीतित्वाद् ब्राह्मणयष्टिका | अङ्गाराभा वल्ल्योऽस्या अङ्गारवल्ली, लौहित्यात् । बालेयस्य गर्दस्य 'शाको बालेयशाकः । शाखाभिः वृणोतीति' बर्बरः । 'वृञ् वरणे' 'वैद्यैर्वन्द्यते स्तूयत इति वन्दकः । 'वदि अभिवादन स्तुत्योः ' । वर्धक इति वा पाठः । भार्गीनामानि ॥ गंडुबारंगि ' ॥ ८९ ॥ 1 रोगं Pt2. 2 5 अङ्गाराकारवल्ली अस्या: Kg, Kg. वबयोरभेद: G. ब्राह्मणवत् Pt2. & वैद्येन K5, Kg. पर्वतात्. (पा.) हञ्जिका | भञ्जिकापि । 'भाग गर्दभशाकञ्च भृगुजा च सुवर्चला । ब्रह्मरीतिः शुक्रमाता कासन्नी भञ्जिका तथा ॥ ' इति वैद्यके । ब्राह्मणी - वन्दकाः । भाङ्गनामानि । 'भारंगि' ॥ ८९ ॥ 3 ° पुष्पवत्त्वात् K... 6 G, Pta add भोज्य: 9 ‘ भङ्गि’ J2. 1Ks, Ke add लोहिते. 4 ब्राह्मणयष्टिरिव F 2. 7 Kg adds व्याप्नोति; मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका ॥ ९० ॥ मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि । (वि.) मञ्जिष्ठेति - मञ्जुनि मनोज्ञे वर्णे तिष्ठतीति मञ्जिष्ठा । विकसति दूरं प्रसरतीति विकसा । 'कस गतौ ' । जिङ्गति सर्वतः प्रसरतीति जिङ्गी । ' जिगि गतौ ' । समन्तादङ्गतीति समङ्गा । 'अगि गतौ' । 'काले मिष्यते शब्द्यते कालमेषिका । कालमेशिकेति वा पाठः । 'मिष मिश 'शब्दे ' । मण्डूका इव पर्णान्यस्या मण्डूकपर्णी | 7 भण्ड्यते भण्डीरी । भण्डी । 'भडि परिभाषणे' । दीर्घवल्लीत्वात् योजनवल्ली । मञ्जिष्ठानामानि ॥ ‘मञ्जिष्ठचेट्टु’ ॥ ९० ॥ । 4 अगति D2, G, K3. 2 G, I add ' ष्ठा गति निवृत्तौ .' 5 कालेन B1; कालेति Kg. 3 CG adds S 6 " मिश शब्दे