पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ अमरकोशः [द्वितीयकाण्डः ‘ उम्मेत्तकाय'। अनुक्तम् – 'त्रिपुरो मदमत्तः स्यात् ' | 'वंगिचेट्टु' || फलपूरो- मातुलुङ्गके । मातुलुङ्गकनामानि । 'मादिफलमुचेट्टु' ।। ७७-८ ।। दुत्तूर: Bg. समीरणो मरुवकः प्रस्थपुष्पः फणिज्जकः । जंबीरोऽव्यथ पर्णासे कठिंजरकुठेरकौ ॥ ७९ ।। (वि.) समीरण' इति – समीरयति प्रकाशयत्यामोदमिति समीरणः । 'ईर क्षेपे' । 'मरुदेशे वाति चर्तत इति मरुवकः । ‘वा गतिगन्धनयोः' । प्रस्थे' सानौ स्थितोऽपि पुष्यतीति प्रस्थपुष्पः । 'पुष्प विकसने' । तीक्ष्णत्वेन फणाभपत्रत्वात् फणिज्जक: 3 | फणिजकशब्दो देश्यः । 'जम्यते भक्ष्यत इति जंबीर: । 'जमु अदने' । जंबीरनामानि । 'मरुवमु' || 'पुराणानि पर्णान्यस्यति क्षिपतीति पर्णासः । 'असु. क्षेपणे ' । कठिनं मुद्गशष्कुल्यादिकं जरयति जीर्णं करोतीति कठिंजरः । ' "द्धृष् वयोहानौ' । कुण्ठति मशकादिगतिं प्रतिबन्नातीति कुठेरकः । 'कुठि 'प्रतिघाते' । कठिंजरनामानि । ‘नल्लगग्गेर’ ॥ ७९ ॥ फणिर्जक: P1 2. 1 मरौ देशे J2, K3, Ptg. 2 प्रस्थेऽपि Ks. 4 जक्ष्यते, 'जक्ष भक्षहसनयो: ' K5, Kg. कुठ बन्धने' Kg. 6 c 76 'लृष् सृष् वयोहानौ' Ks, Kg. 3 तीक्ष्णत्वेन फणीव आर्जक: 5 पुराणपर्णानि D2. (पा.) समीरणो– जम्बीरोऽपि । मरुवकनामानि । 'मरुवमु' |॥ अथ पर्णासे- कुठेरकौ । पर्णासनामानि । “ नल्लगग्गेर' ॥ ७९ ॥ सितेऽर्जकोऽत्र पाठी तु चित्रको वह्निसंज्ञकः । अर्काह्नवसुकास्फोटगणरूपविकीरणाः ॥ ८० ॥ मन्दारश्चार्कपर्णेऽत्र शुक्लेऽलर्कप्रतापसौ । (वि.) सित इति—अर्जयति 'नवपत्रादीन् अर्जकः । ‘ अर्ज अर्जने’ । श्वेत- पर्णासनाम । 'तेल्लगग्गेर' | वह्निपर्याये पाठोऽस्यास्तीति पाठी । चेतन्तीति चितो जन्तवस्तान् त्रायते व्याधित इति चित्रक: । 'त्रैङ् पालने' । 'वह्निसंज्ञा नामास्यास्तीति वह्निसंज्ञकः। चित्रकनामानि । 'चित्रमूलमु’ ॥ 'अर्कस्याह्वा नामास्यास्तीति अर्काह्नः। वसत्यस्मिन् तेज इति वसुकः । ‘वस निवासे' । आस्फुटतीत्यास्फोटः । ‘ स्फुट