पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः २५७ महाकोलः किंपाकः कालकूटकः' । किंपाकद्रुमनामानि । ‘कांजीरवृक्षमु’ ॥ श्रीहस्तिनी - भूरुण्डी । श्रीहस्तिनीनामनी । ‘गुरुगुचेट्टु' | 'तृणशूल्यं तु । सुभूतिटीकायां तृणशूल्या तृणशून्या वेति रूपान्तरसत्ता स्त्रीलिङ्गता चोक्ता । मल्लिका - शीतभीरुश्च । मल्लिकानामानि | ‘मल्ले' । ‘मदयन्ती विचकिल: ' । एते च ॥ सैव – वनोद्भवा । 'अडविमल्ले' । ‘ 2 काकमल्यां वनोद्भवा' इति वैजयन्ती (प्र. ६०, श्रो. १८४) ।। ६९ ।। 1 तृणशून्यं B3. 2 काकमाल्याम् इति मुद्रितग्रन्थे. शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा ॥ ७० ॥ सितासौ श्वेतसुरसा भूतवेश्यथ मागधी | गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका ॥ ७१ ॥ (वि.) शेफालिकेति—शेरत इति शेफाः निद्राणा अलयोऽत्रेति शेफालिका | सुष्ठु बहत्य।मोदं सुवहा। ‘वह प्रापणे’। गुडाद्वेष्टनान्निष्क्रान्ता 'निर्गुण्डी। नीलपुष्पत्वान् नीलिका | शेफालिकानामानि । " नल्लुवाविलि' || श्वेतः शोभनो रसो यस्याः सा श्वेतसुरसा | भूतानि विशत्याह्लादयतीति भूतवेशी । ' " विश आह्लादने' । श्वेतशेफालि- कानामनी । 'तेल्लवाविलि' | 'मगधदेशप्रचुरा मागधी । गणिकावञ्चित्ताकर्षणाद्" गणिका | यूथो 'जालकमस्या अस्तीति यूथिका | भ्रमरैरम्यते शब्द्यत इत्यम्बष्टा । ‘अबि शब्दे' | अम्बो भ्रमराणां ध्वनिः, सोऽत्र तिष्ठतीति वा । 'ष्टा गतिनिवृत्तौ' । 'यूथिका- नामानि। ‘अडविमोल्ल' ॥ हेमवर्णानि पुष्पाणि यस्या हेमपुष्पिका। पीतपुष्पयूधिका- नाम | ‘पञ्चपूवुलमोल्लपेरु' ।। ७०-१ ।। 1 Pte adds 'गुड वेष्टने . 4 · विश प्रवेशने’ B1, K3. 2' नल्लनिपुष्पुलुवाबिलि' Ka. 5°देशे J2, Pte; प्रचुरत्वात् Ja. 7 जालमस्या इति Pt2. 8 एतानि मालतीकल्पस्य नामानि J.. 6 3 शोभनश्च G. " कर्षणात् Ptz. (पा.) शेफालिका–नीलिका च सा । नीलपुष्पनिर्गुण्डीनामानि | 'नल्लवा- विलि’।सितासौ—भूतवेशी । श्वेतपुष्पनिर्गुण्डीनामानि | 'तेल्लवाविलि’॥ अथ मागर्धा- अम्बष्ठा । ‘मुल्ल' । सा- हेमपुष्पिका । सा यूथिका पीतपुष्पा चेतू हेमपुष्पिका। 'पञ्चपुप्पुलमुल्ल' ॥ ७०-१ ।। 17