पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः २५५ (वि.) एतस्येति–'कलिङ्गदेशे जातं कलिङ्गम् । इन्द्रवृक्षफलत्वाद् यववीजा- कृतित्वाच्च इन्द्रयवम् । दीपनादिकल्याणकारित्वाद् भद्रयवम् । भद्रयवनामानि | 6 कोडिसेपण्डु' ॥ कृष्णं पाके फलमस्य कृष्णपाकफल': । आविजतेऽस्मादिति आविग्नः । ‘ओविजी भयचलनयो: ' । उद्विग्न इति पाठे उद्विजन्ते जनाः पित्तकरेऽस्मिन्निति उद्विग्नः । सुपेण ख्यकपिमुखाभफलत्वात् ' सुपेणः । करेण "मृद्यते करमर्दकः । 'मृद् मर्दने' । करमर्दकनामानि । ‘‘करिवे चेट्टु’ ॥ ६७ ॥ 1 कलिङ्गफलत्वात् Kg, Kg. गनपील' J2. Ptg. 4 कृष्णवर्णपाकं फलमस्य Ptg. 6 मर्द्यते J2, Pt.. 7' बोरिंग' Ks. 2 G, Pte add यवाकृतित्वाच्च 5

  • ' कोडरी-

'मुखाभत्वात् J2: मुखाकृतित्वात् इति ॥ ६७ ॥ (पा.) एतस्यैव – फले । एतत्फलनामानि । 'कोडिशकाय’ | ‘कुटजस्य फले क्लीवं कलिङ्गेन्द्रयवं स्मृतम्' इति रत्नकोशपाठात् समासाभिप्रेतम् । 'कलिङ्गं तु यवे ना तु देशपक्षिविशेषयोः' इति वैजयन्तीपाठाइ (पु. २९९, लो. ३३) व्यासाभिप्रेतं कलिङ्गम् इन्द्रयवमिति ।। अनुक्तम्– ‘दोषप्राहस्तु कतकः' । कतकनाम । ‘इण्डुपुचेट्टु’।। 'जम्बू: स्त्री सुरभिच्छदः' । जम्बूनाम | ‘नेरेडु' । कृष्णपाकफला- करमर्दके । करमर्दकनामानि। ‘कलिवेचेट्टुन्नु बोंकचेगुन्नु' | शब्दार्णवे कृष्णपाकफळशब्दाः बहुधा विकल्पिता:- 'कृष्णः पाकः फलो विघ्नः सुषेण: करमर्दकः । कृष्णपाकफलः कृष्णफलपाको वनालकः ॥ कृष्णपाकफलादिश्च पाककृष्णः फलादिकः । कृष्णपाकः पाककृष्णः फलकृष्णो वरालकः ॥ पाककृष्णफलः पाकफलकृष्णः कराम्बुकः । फलपाकः पाकफलो बोलः कृष्णफलो वशः ॥' कालस्कन्धस्तमालः स्यात् तापिच्छोऽप्यथ सिन्दुकः । सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि ॥ ३८ ॥ (वि.) कालस्कन्ध इति कालवर्णः स्कन्धोऽस्य कालस्कन्धः । तम्यते तापि- भिरिति तमालः । 'तमु 'काङ्क्षायाम्' | "तापिन: छादयतीति तापिच्छः । 'छद अपवारणे' । तमालनामानि | 'तमालमु' || स्यन्दते कटुरक्तरसमिति सिन्दुकः ।