पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः राजादनं प्रियालः स्यात् सन्नकदुर्धनुष्पटः । गम्भारी सर्वतोभद्रा काश्मरी मधुपर्णिका ॥ ३५ ॥ श्रीपर्णी भद्रपर्णी च काश्मर्यश्चाप्यथ द्वयोः । कर्कन्धूर्बदरी घोण्टा कोली कुवलफेनिले || ३६ ।। सौवीरं बदरं कोलमथ स्यात् स्वादुकण्टकः । विकङ्कतः स्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि ॥ ३७ ॥ 6 1 (वि.) राजादन मिति – राजभिरद्यते मृष्टत्वादिति राजादनम् । ‘अद भक्षणे’। प्रीयते हृदयं गच्छति अतिरसत्वादिति' प्रियालः । 'प्रीङ् प्रीतौ ' । पियाल इति पाठे पीयत इति । सन्नानि सूक्ष्माणि कद्रुवर्णानि वीजान्यस्येति सन्नकद्रुः । सन्नको द्रुः स्कन्धोऽम्येति वा । धनुष इव पटो विस्तारोऽस्यास्तीति धनुष्पट: नामद्वयं वा । धनतीति धनुः । ‘धन धान्ये ' । उकारान्तः । पटवद्विस्तृतः पटः । प्रियालनामानि । 'मोरटिचेट्टु' || सारतया मूलादिगमने भारोऽस्या अस्तीति गम्भारी । सर्वतो भद्रमस्या अस्तीति सर्वतोभद्रा। कृश्यति तनूकरोति पित्तादिकमिति काश्मरी | ‘कृश तनूकरणे' । मधूनि "स्वादूनि पर्णान्यस्या इति मधुपर्णिका । श्रीः पर्णेष्वस्या इति श्रीपर्णी | भद्रप्रदानि पर्णान्यस्या भद्रपर्णी | कृश्यति तनूकरोति पित्तादिकमिति काश्मर्यः । 'कृश तनूकरणे' । कश्यते कर्म कुरुतेऽनेनेति वा काइमर्यः । 'कशि गतिशासनयोः ' | काश्मरीनामानि | ‘गुम्मुडुचेरृट्टु’॥ कर्काणि लोहितानि पर्णानि वत्त इति कर्कन्धूः । 'डुधाञ् धारणपोषणयोः' । बदति स्थिरा भवतीति बदरी । 'बद स्थैर्ये' । कोलति' निविडाव- यवत्वान् कोली कुल संस्त्याने' । घुणति वृत्ततया भ्रमतीति घोण्टा । 'घुण धूण भ्रमणे ' । बदरीनामानि | रेंगुचेट्टु' || कौ भुवि " चलते भ्रमतीति कुवलम्। ‘वल संचरणे संचरणे च'। फेनोऽस्यास्तीति फेनिलम् । सुवीरदेशे प्रचुरत्वात् सौवीरम् । बर्याः फलं वदरम् | कोल्याः फलं कोलम् । घोण्टाशब्दो वृक्षफलयोर्वाचकः । बद्रीफलनामानि । 'रेंगुपण्डु' | स्वादुफलत्वात् कण्टकवत्त्वाच्च स्वादुकण्टकः । विकङ्कते प्रसरतीति विकङ्कतः । 'ककि गतौ' । स्रुवा स्रुक तदर्थं वृक्षः स्रुवावृक्षः । स्रुचावृक्ष इति वा पाठ: । 12 ग्रन्थिलत्वात् ग्रन्थिलः । व्याघ्रस्य पादा इव पादा मूलान्यस्य व्याघ्रपात् । विककतनामानि । 'पुल्लवेलंगचेट्टु' ।। ३५-७ ।। 6 6 खरः. २३७ 1 राज्ञामदनं J2, Pt. → दधातीति K3. 2 सारवत्वात् B1; सारत्वात् I, K2, K3. 3 Ke adds 5 सारवत्त्वात् F2, Pt2. 6 मृष्टानि Ks, Kg; Kg adds