पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ अमरकोशः [द्वितीयकाण्डः आद्यौ श्वेतलोध्रस्य, इतरे रक्तलोध्रस्येत्यपरे || अम्यते 'भक्ष्यत इत्यात्रः । 'अम गत्या- दिषु' । 'चोतति स्रवति रसमिति चूतः । 'चुतिर्° क्षरणे' । रसम् अलति भूषयतीति रसाल: । 'अल भूषणपर्याप्तिवारणेषु' । रसम् आलातीति वा । 'ला दाने' । आम्र- नामानि । 'मामिडि चेट्टु' ॥ सह कारयति मेलयति स्त्रीपुंसाविति सहकारः । ‘डुकृञ् करणे’। 'अतिसुगन्धाम्रनाम ॥ ' तिय्यमामिडि चेट्टु' ॥ ३३ ॥ 1 अस्थिरोगम् K3. 4 अभिलष्यते F2, Pt2. 7 F2 adds अतिशयितं सौरभमस्य. 2 J2, Kg add °वृक्ष. 3 B1, I, Kg add श्वेतलोत्रनामनी. 5 च्योतति B1, D2, I, K5. 6 ‘ च्युतिर् क्षरणे' I, J2 । (पा.) गालवः - मार्जनौ । लोध्रनामानि । 'लोहुगचेट्टु’ ॥ आन्रः–रसालः । चूतवृक्षनामानि। 'मामिडिचेट्टु' | 'वसन्तशाखी माकन्दः कामाङ्गो मदिरासखः'। एतानि च ॥ असौ-सौरभः । अत्यन्तसुरभिचूतः सहकारः स्यात् ॥ ३३ ॥ कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः | शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ॥ ३४ ॥ (वि.) कुम्भोलूखलकमिति– कुम्भोलूखलाकारात् वृक्षकोशान्निर्यातीति कुम्भोलू- खलकम् । कुम्भोलूखलके क्लीबे इति केचित् द्विवचनान्ततया नामद्वयं दर्शयितुं पठन्ति । वृक्षकोशे भवः कौशिकः । गुडति रक्षति वातरोगादिति गुग्गुलुः । 'गुड रक्षणे। पुरत्यग्रे सरति धूपवृक्षेष्विति पुरः । 'पुर अग्रगमने' । गुग्गुलुवृक्षनामानि । 'गुग्गिलपुचेट्टु' || शिलति उञ्छति केशकाष्र्ण्य करोतीति शेलुः । ' शिल उञ्छे । शिनोति "जिह्वामिति वा । ' शिञ् निशातने' । श्लेष्माणम् अतति कटुतये श्लेष्मातकः । 'अत सातत्यगमने' | विरुद्धलक्षणया उष्णवीर्यत्वात् शीतः । उष्णवीर्य- त्वादङ्गमुद्दालयतीत्युद्दालः । 'दल 'विशरणे ' । वहूनि स्रोतांसि कटुत्वेन वृणोतीति बहुवारकः। ‘वृ॑ञ्ं वरणे’। उद्दालकनामानि । 'विरिगिचेट्टु’ ॥ ३४ ॥ 3 रोगान् J2, Pt2. 4 1 वदन्ति B1. 2 शीतवीर्यत्वात् Pt2. गुड रक्षायाम् ' Kg. 6 विदारणे Pt2. कटूष्णतया Kg. (पा.) कुम्भोलूखलकं कीबे | सुभूतिटीकायां त्रिधा विभक्तं कुम्भोलूखलकं कुम्भम् उल्लूखलकमिति ॥ कौशिको – पुरः । गुग्गुलुद्रुमनामानि। ‘गुग्गिलपुचेट्टु’। 'जटायुः कालनिर्यासो महिषाक्ष: पलंकषः । एतानि च ॥ शेलुः– बहुवारकः । श्लेष्मातकनामानि । ‘विरिगचेट्टु' ॥ ३४ ॥