पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः ॥ २४ ॥ वरुणे वरणः सेतुस्तिक्तशाकः कुमारकः । पुंनागे पुरुषस्तुङ्गः केसरो देववल्लभः ॥ २५ ॥ २३१ (वि.) स्युरिति - जम्यते भक्ष्यत इति जम्बीरः । 'जमु अदने' । दन्तान् शठति ' हिंसयति आम्लत्वेनेति दन्तशठ: । 'शठ हिंसा संक्लेशनकैतवेषु' । जम्भयति मोहयतीति जम्भः | जम्भीरः जम्भलश्च । 'जभी गात्रविनामे'। जम्भीरनामानि | 6 ' निम्मिचेट्टु' || वृणोति आवृणोतीति वरुणः | ‘वृञ् वरणे' | वरणश्च । आवरण- कारित्वात् सेतुः । सिनोति व्याधिं हन्तीति वा । 'पिञ् बन्धने' । 'तिक्तश्चासौ शाकञ्च तिक्तशाकः । सदा तरुणत्वात् कुमारकः । वरणनामानि | ‘उलिमिरि चेट्टु' ।। पूजितः पुमान पुंनगः | पुंनाग इव पुंनागः । पुरुषवदुन्नतत्वात् पुरुषः | तुङ्गश्च | तुज्यत इति तुङ्गः । ‘तुजि हिंसायाम् ' । प्रशस्ताः केसराः सन्त्यस्य कैसरः । देवानां वल्लभः प्रियः देववल्लभः । पुंनागनामानि । 'सुरपोन्नचेट्टु' ॥ २४-५ ।। 2 हिनस्ति Kg; दन्तानां शठ: अम्लत्वेन F2, Pto. 1 भुज्यते B1, Kg. शाकोऽस्य Pt..

  • तिक्तरसः

(पा.) स्युर्जम्बीरे-जम्भलाः । जम्बीरनामानि । " निम्म' | वरणे- कुमारकः । वरणवृक्षनामानि । 'उविमिरि चेट्टु' | 'मटमाविनपेरुन्नु' ॥ पुंनागे- देववल्लभः । पुनागनामानि । ‘पोन्नचेट्टु’ | सुरपुंनाग इति तद्भेदः। ‘नमेरुः सुरपुंनागः'। इति निघण्टुसर्वंकषः । ‘सुरपोन्नचेट्टु’ ॥ २४-२॥ 1 जम्भीर° B3. 2 Bg adds ‘ चेट्टु’. पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः । तिनिशे स्यन्दनो नेमी रथदुरतिमुक्तकः ॥ २६ ॥ वञ्जलश्चित्रकृचाथ द्वौ पीतनकपीतनौ । आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ ॥ २७ ॥ वानप्रस्थमधुष्टीवौ जलजेऽन्त्र मधूलकः । (वि.) पारिभद्र इति - परितो भद्रमस्य पारिभद्रः । नयत्यारोग्यमिति निम्बः । ‘णी प्रापणे' । स चासौ तरुञ्च निम्बतरुः । मन्दा: सूक्ष्मा अराः कण्टका यस्य 1