पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोश: [द्वितीयकाण्ड: (पा.) उदुम्बरो-हेमदुग्धकः । उदुम्बरनामानि | ‘ मेडि ' । कोविदारे- युगपत्रकः । कोविदारनामानि । 'काञ्चनमु ' । 'कञ्जदारः काञ्चनारः' । एते च ॥ २२ ॥ २३० सप्तपर्णो विशालत्वक् शारदो विषमच्छदः । आरग्वधे राजवृक्ष शम्याकचतुरङ्गुलाः ॥ २३ ॥ आरेवतव्याधिघातकृतमालसुवर्णकाः । (वि.) सप्तपर्ण इति - सप्त पर्णानि यस्य सप्तपर्णः । विशाला त्वक् यस्य विशालत्वक् । शरदि 2 पुष्पोद्गमात् शारदः । शारदीति वा स्त्रीलिङ्गः । " विषमाः छदाः पत्राणि यस्य विषमच्छदः। सप्तपर्णनामानि । 'एडाकुल यरटिचेट्टु' ॥ आरञ्जयन्तीति आरजः फलाकारा मलास्तेषां वधः छेदनमस्यास्मिन्निति वा आरग्वधः । राजा चासौ वृक्षश्च राजवृक्षः। रोगराजं वृश्चति छिनत्तीति वा । 'ओत्रश्चू छेदने' । शमीमकत्यनु- गच्छतीति शम्याकः। 'अक अग कुटिलायां गतौ' । चतुरङ्गुलपर्णपर्वकत्वात् चतुरङ्गुलः | आरेवते उत्प्लुत्य गच्छति रोगोऽनेनेति आरेवतः । ' रेव प्लव गतौ' । आरेव खड्ग इव रोगदेवतां हन्तीति वा । व्याधिं हन्तीति व्याधिघातः । फलैः कृता माला यस्य कृतमाल: | सुवर्णाकाराणि पुष्पाणि यस्य सुवर्णकः । सुवर्णकनामानि | ‘रेलचेट्टु’ ॥ २३ ॥ 1 प्रतिपर्व सत पर्णानि Ptg. 3 Pta adds सप्तपर्णत्रात् पाकोऽत्रेति वा Pt2. 2 पुष्यतीति F2, Ptg; शारदीति वा पाठ: Kg, Ptg. 4 सम्यक् पाकोऽत्र सम्पाक इति वा पाठः । शं कल्याण: 5 'हन हिंसागत्यो: ' Kg. (पा.) सप्तपर्णो – विषमच्छदः । सप्तपर्णनामानि । 'येडाकुलरटु' । शारदी- शब्दोऽपि । 'शारदी तोयपिप्पल्यां सप्तपर्णे च शारदी' इति रुद्रः । सांकर्य पुंस्त्वज्ञा- पनार्थम् ॥ ‘शारदः 'सप्तपर्णः स्याद् बृहत्त्वक् ग्रहनाशन: ' इति रत्नकोश: । आरग्वधे- सुवर्णका: । आरग्वधनामानि | 'रेल चेट्टु' ॥ अरग्वधशब्दोऽपि । 'आरग्वधस्तु G शम्याकः कृतकूलोऽप्यरग्वधः' इति रत्नमाला । अर्ग्यधशब्दोऽपि । अबधे तु व्याघातः' इति वैजयन्ती (पृ. ४९, लो. ४८) ॥ २३ ॥ 1 सप्तपर्णेभ्यो बृहत्य: B3. श्लो. ४८) इति, 'आर्ग्यधे तु व्याघातश्चतुरङ्गुलः' इति च मुद्रितग्रन्थे. 6 2 ' आरग्वध आरवेतः शम्याक: प्रग्रहोऽर्वध:' (पृ. ४९,