पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ [द्वितीयकाण्डः अमरकोशः पुष्पे जातीप्रभृतयः स्खलिङ्गा व्रीहयः फले ।। १९ ।। विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबेऽपि पाटला । (वि.) पुष्प इति — जातीमालती यूथिकादयः पुष्पे प्रसवे वर्तमानाः स्वलिङ्गा भवन्ति । कथम् ? 'जात्याः पुष्पं जाती। एवं 'मालत्यादयः । ब्रीहयः फले । व्रीहिशब्द- बहुवचनेन गोधूमादयो गृह्यन्ते । व्रीहियवगोधूमादयः फले प्रसवे वर्तमानाः स्वलिङ्गाः प्रकृतिलिङ्गा भवन्ति । कथम् ? व्रीहीणां फलानि ब्रीहयः । एवं गोधूमादयः । विदारी- " गान्धार्यशुमत्यादयो मूले वर्तमानाः स्वलिङ्गाः प्रकृतिलिङ्गा भवन्ति । अपिशव्दात् परेऽपि । कथम् ? विदार्याः फलं मूलं 'वा विदारी । एवं 'गान्धार्यादि । पाटलशब्द: पुष्पप्रसवे वर्तमानः क्लीबेऽपि । अपिशब्दात् स्वलिङ्गश्च भवति । कथम् ? पाटलाया: पुष्पं पाटलं पाटला वा ।। १९ ।। 1 J2, Kg add पुष्पे जातिप्रभृतयः स्वलिङ्गाः. 2 मल्लिका F1, I, Ks; शेफालिका F2. 3] प्रभृतयः F1. 4 जातेः कुसुमं जाति: Pta. 5 मल्लिकायाः कुसुमं मल्लिका Pt2. 6 मुद्रस्य फलं मुद्रः, माषस्य फलं माष: Ptg. 7 गन्धारी Pt2. 8 Ptg adds कुसुमं वा. 9 गन्धार्या : फलं मूलं कुसुमं वा गन्धारी Pt2. 6 (पा.) पुष्पे – स्वलिङ्गाः । पुष्पे वर्तमाना जातिप्रभृतयः प्रकृतिलिङ्गाः । जातिर्मल्लिका यूथिका नवमालिका । 'पुष्पमूलेषु बहुलम्' (वा. ४. ३.१९६६) इति लुप् । त्रीहयः फले । ब्रीहयः फले प्रकृतिलिङ्गाः । माषा यवास्तिला मुद्गाः । 'लुक्प्रकरणे 'फलपाकशुषाम्' (वा. ४. ३.१६६) इति लुबुपसंख्यानात् ॥ विदार्या– मूलेऽपि । विदार्याद्या मूले प्रकृतिलिङ्गाः । विदारी, अंशुमती, शतावरी, बृहती, अपिशब्दात् पुष्पे यथादर्शनं प्रकृतिलिङ्गता । बृहत्याः पुष्पमपि बृहतीति ॥ पुष्पे-पाटला | पाटलाशब्द: पुष्पे वर्तमानो नपुंसकलिङ्गः प्रकृतिलिङ्गश्च भवति । पाटलं, पाटला ||१९|| 1' लुप्प्रकरणे फलपाकशुषामुपसंख्यानम्' इति काशिकायाम् (पृ. ३६२). 2 A1 adds ल्यू. बोधिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः ॥ २० ॥ अश्वत्थेऽथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः । तस्मिन् दधिफलः पुष्पफलदन्तशठावपि ॥ २१ ॥