पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः द्विहीनं प्रसवे सर्व हरीतक्यादयः स्त्रियाम् । आश्वत्थवैणवप्लाझनैयग्रोधैगुदं फले ॥ १८ ॥ बाहतं च फले जम्ब्वा जम्बू: स्त्री जम्बु जाम्बवम् । (वि.) द्विहीनमिति - सर्व वक्ष्यमाणं प्रसवे मूलपुष्पफलादौ वर्तमानं वृक्षल तौपधिजातं द्विहीनं स्त्रीपुंलिङ्गहीनं भवति । नपुंसकमेवेत्यर्थः' । लुततद्धितान्तं च भवति । चम्पकस्य पुष्पं चम्पकम् । आम्रस्य फलम् आम्रम् | "द्विहीनस्यापवादमाह- हरीतक्यादयः स्त्रियामिति । हरीतकी कोशातकी केतकी धात्र्यादयः फले प्रसवे वर्तमानाः प्रकृति : ' हरीतकी शब्दवत् स्त्रियां वर्तन्ते । कथम् ? हरीतक्याः फलं हरीतकी एवं कोशातकी- त्यादि । लुमतद्धितान्तस्यापवादमाह - अश्वत्थेत्यादि । एते शब्दाः फले॰ प्रसवे वर्तमाना अलुमतद्धितान्ता भवन्ति । न तु चूतादिशब्दवत् । अश्वत्थस्य फलम आश्वत्थम् । वेणोरिदं वैणवम | लक्षस्य फलं लाक्षम् । न्यग्रोधस्य फलं नैयग्रोधम् । इङगुद्याः फलम् ऐगुदम | बृहत्याः फलं बाईतम | जम्बूशब्दः फले वर्तमानः स्त्रीरूपत्वं भजते । कथम् ? जम्ब्वाः फलं जम्बूः | पक्षे जम्बु जाम्बवं च ।। १८ ।। । इति यावत् J2, Pt.. 2 लुमतद्वितं Kg. 5 Fg aids कोशातक्या: फलं कोशातकी. 8 स्त्रीरूपं भवति F1. 4 स्वप्रकृति : F.. इड्डदस्य Pto. २२७ 3 6 B omits one page. 6 फलप्रसवे D., Fir (पा.) द्विहीनं– सर्वम् | वक्ष्यमाणशब्दजातं सर्व पुष्पफलमूलादौ वर्तमानं सत् नपुंसकलिङ्गं भवति । चम्पकस्य पुष्पं चम्पकम् | कदम्बम् | करवीरम् | ‘पुष्पमृलेषु बहुलम्' (वा. १. ३. १६६) इति बहुलवचनादुत्पन्न प्रत्ययस्य लुक् च । आम्रस्य फल- मान्रम् | दाडिमम्। तिन्दुकम् | ‘फले लुक्’ (४. ३. १६३) इति लुक् | हरीतक्यादयः स्त्रियाम् | हरीतक्यादयः फले वर्तमानाः स्त्रीलिङ्गा । हरीतक्याः फलं हरीतकी । कोशातकी, द्राक्ष । 'हरीतक्यादिभ्यश्च' (४. ३.१६७) इति लुप | 'लुपि युक्तवद्व्यक्तिवचने' (१. २. ५१) इति प्रकृतिलिङ्गता | अश्वत्थ – वाहतं च । अश्वत्थादयः फले नपुंसक- लिङ्गाः । अश्वत्थस्य फलमा वत्थमित्यादि । 'आदिभ्योऽण् ' (१.३.१६४) इत्यञपवा- ढकाण्विधानसामर्थ्यान्न लुक् । एवं वैणवादीनामपि चकाराद् गणपठितशिव्वादेरपि । शैप्रवमित्यादि ॥ फले – जाम्बवम् । जम्बूफले जम्बृः स्त्रीलिङ्गः । 'लुप् च' (४. ३. १६६) इति लुप् । जम्बुजाम्बवशब्दौ नपुंसकौ । ‘जम्ब्वा वा’ (१. ३. १६२) इति विभाषाण | पक्षे 'ओरञ्' (१. २. ७१ ) । तस्य लुक् जम्बु । अणि जाम्बवम् ।। १८ ॥