पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्ड: (पा.) पत्र – छदः पुमान् । पत्रनामानि । 'आकुलु' | पल्लवो– किसलयम् । पल्लवनामनी। ‘चिगुरु' || किसलशब्दोऽपि । ' किसलं स्यात् किसलयं पुंसि क्लीबे च पल्लवम्' इति 'व्याडिः । विस्तारो – अस्त्रियाम् । पल्लवितशाखानामनी ॥ १४ ॥ 1 व्यालि: B3. वृक्षादीनां फलं सस्यं वृत्तं प्रसवबन्धनम् । आमे फले शलाहुः स्वाच्छुष्के वानमुभे त्रिषु ॥ १५ ॥ २२४ ( वि.) वृक्षादीनामिति – फलतीति फलम । 'फल निष्पत्तौ ' । सस्ति वृक्षमधि- शेते सस्यम् । ‘षस स्वप्ने' | वृक्षलता दिफलनामनी ॥ वृणोति स्वीकरोति पुष्पमिति वृन्तम्। ‘वृञ्” वरणे' । प्रसूयत इति प्रसवः । 'षु प्रसवैश्वर्ययोः' । बध्यतेऽनेनेति बन्धनम् । 'बन्ध बन्धने' । प्रसवाः पुष्पफलपत्राणि तेषां बन्धनम् । पुष्पादीनां लता दिसंबन्धघटकनालादियुक्तस्य नाम ॥ शलति पुष्टिमा पद्यत इति शला : ' । 'शल ‘गतौ’। अपक्कफलनाम ॥ वायति शुष्यतीति वानम् । 'पै ओवै शोषणे' । शुष्कफल- नाम || उभे त्रिषु । उभे राल दुवाननामनी त्रिषु लिङ्गेषु वर्तेते ॥ १५ ॥ 2 ‘ वृङ् संभक्तौ ' Ks, Pt2. 1 वृणीते Pt2. शलश्चासौ अटुश्च शलाटु: F2, Pt2. 3 शलति पुष्टिमापद्यते शलः । 4 'शल चलनसंवरणयो: ' Pt2. (पा.) वृक्षादीनां – सस्यम् । वृक्षादिफलनाम । 'ग्राम्यकविकथा बन्ध इव - नीरसस्य - मनोहरो देश: ' इति नलदमयन्तीलेषाद् द्विदन्त्यः । वृन्तं - बन्धनम् । पुष्पफलबन्धनं वृन्तं स्यात् । 'तोडिमे'। प्रसवबन्धनमिति करिकलभवत्प्रयोगः । ' प्रसवः पिप्पलं सस्यं फलं वृन्तं तु बन्धनम् इति वैजयन्ती (प्र. ४६, श्लो. २०)। आमे– स्यात् । अपक्कफलनाम । 'काय ' । 'शार्दूलशम्बलपलाशशल टु टी- शुण्ठीशटीशरदशोकशुभप्रकाशाः । ' इत्यूष्मभेदपाठात् तालव्यादिः । शुष्के वानम | शुष्कफलनाम। उसे त्रिषु । ल व शब्द द्वौ त्रिलिङ्गौ । लाटवो माषाः, वानाचणकाः ॥ १५ ॥ क्षारको जालकं क्लीबे कलिका कोरकः पुमान् । स्याद् गुच्छकस्तु स्तबकः कुड्मलो मुकुलोऽस्त्रियाम् ॥१६॥