पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्ड: (वि.) शिरोऽप्रमिति – श्रीयते स्वाङ्गं शिरः । ‘श्रिञ् सेवायाम् ' । अगतीत्यग्रम् । 'अग कुटिलायां गतौ' । शिख | अप्रशाख । अस्यास्तीति शिखरम् । वृक्षशिरोनामनि ॥ मूल्यतेऽनेनेति मूलम् । 'मूल प्रतिष्ठायाम्' । बध्यन्ते स्थिरीक्रियन्ते उद्भिदादयोऽनेनेति बुघ्नः । 'बन्ध बन्धने' । अङ्ग्रेर्नाम पादपर्यायो यस्य अविनामकः | वृक्ष देरङ्घ्रि संज्ञिकभागनामानि ॥ 'कालान्तरेऽपि सरतीति सारः । 'सृ गतौ' । मज्जति दारुणोऽन्तरिति 'मज्जा । " टुमस्जो शुद्धौ' | 'नकारान्त: । वृक्षान्तःसारनामनी । 'त्वच्यन्ते आब्रियन्ते- ऽनयेति त्वक् । 'त्वच संवरणे' । 'वलते संवृणोतीति वल्कम् । वल्कलं च । 'वल संवरणे ' । वृक्षत्वचो नामानि ॥ १२ ॥ २२२ 1 मूलतीति F2, Pt 2. 4 ' मज्ज निमजने' Kg. 7 वल्यते K5. 2¢ 'मूल रोहणे' F1, Kg. 5 आकारान्तः स्त्रीलिङ्गोऽपि F2. 3 कालान्तरमपि F2. 6 त्वचति आवृणोति Pt. (पा.) शिरोऽयं – वा ना । अग्रनामनी । 'कोन' । मूलं – नामकः । मूलनामानि । 'वेरु' । नामशब्दः पादादिपर्यायग्रहणार्थः ॥ सारो - नरि । स्थिरांशनामनी । 'चाव' । • मज्जा नान्तः ॥ त्वक् – अस्त्रियाम् । तर्वादित्वङ्नामनी || अस्त्रीशब्दो वल्कलमात्र- विशेषणम् । ‘ वल्कलश्चोलकोऽस्त्रियाम्' इति वैजयन्ती (प्र. ४६, श्लो. १३) ॥ १२ ॥ 1 ' वल्कलं चोलकोऽस्त्रियौ' इति मुद्रितपुस्तके. काष्टं दार्विन्धनं त्वेध इध्ममेधः समित् स्त्रियाम् । निष्कुह: कोटरं वा ना वल्लरी मञ्जरी स्त्रियौ ॥ १३ ॥ (वि.) काष्ठमिति–काशते 'दैर्घ्येणेति काष्ठम्' । 'काट दीप्तौ' । दीर्यते कुठारादिनेति दारु। ‘दृ विदारणे' | 'मिन्नशाखानामनी || इध्यतेऽग्निरनेनेति इन्धनम्। इमं च । 'ञिइन्धी दीप्तौ' ! एधतेऽग्निरनेनेति एवः । सान्तः । अजन्तश्च, पुमानयम् । ‘एध वृद्धौ’। समिध्यतेऽग्निरनयेति समित् । स्त्रियाम् । 'ञिइन्धी दीप्तौ'। अग्नि- • समिन्धनार्थकाष्ठनामानि || निष्कुहयते विस्मापयत्यत्यन्त विस्तृतत्वादिति निष्कुहः। ‘कुह विस्मापने’। कुटिलसुषिरत्वात् कुटतीति कोटरम् । 'कुट कौटिल्ये' । निष्कुटमिति वा पाठः । वृक्षगतविवरनामनी ॥ वल्लते संवृणोति शाखा मिति वल्लरी वल्लरिर्वा' । मन्यते कोकिलादिभिर्बहुमन्यत इति मञ्जरी । मञ्जरिर्वा । 'मनु अवबोधने' । सकुड्मलनवा - 2 विर्भूतवृक्षशाखानामनी ॥ १३ ॥