पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः वन्ध्योऽफलोऽवकेशी च फलवान् फलिनः फली | प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः ॥ ७ ॥ फुल्ल विकसिते स्युरवन्ध्यादयस्त्रिषु । ४. वनौषधिवर्ग:] 'बन्ध (वि.) वन्ध्य इति - स्वगतवैगुण्येन फलानि बनातीति वन्ध्यः | 'बन्धने' । न 'सन्ति फलान्यस्य अफलः । अवकं शून्यमीष्टे पालयतीत्यवकेशी । 'ईश ऐश्वर्ये'। निष्फलवृक्षनामानि ॥ फलानि सन्तीति फलवान् । फलिनश्च । फली च । फलाट्यादिनामानि ॥ प्रफुलति उत्फुल्लति संकुलतीति प्रफुल्लः उत्फुल्लः संकुलश्च । ‘फुल विकसने ' । प्रफलतीति वा प्रफुलः । 'त्रिफला विशरणे' । विगत आकोचः संकोचो यस्य सः व्याकोचः । 'कुच संकोचने' । व्याकोश इति पाठे व्यावृत्तः कोशः संकोचोऽस्मादिति व्याकोशः । विगतः कचो मुकुलावस्था' अस्य विकचः । “कचि दीप्तिवन्धनयोः' । स्फुटति विकसतीति स्फुट: । 'स्फुट विकसने " | विकसितवृनादि- नामानि ॥ अवन्ध्यादयः फुल्लान्ताः शब्दास्त्रिषु लिङ्गेषु वर्तन्ते ॥ ७ ॥ 2 प्रतिबध्नाति F1, Je, Kg, K3. 4 न विद्यन्ते F2, Kg. 7 F2, Pt2 add फुल्लतीति फुल्लः, 'फुल्ल विकसने . 1 फलनिष्पत्ति Ks. F1, I add वचयोरभेदः. Pt2. २१९. 3 ' बधि संयमने ' Kg; 6" कच बन्धने' 5 बन्धनं F.. (पा.) वन्ध्यो- - - अवकेशी च | वन्ध्यतरुनामानि ॥ फलवान्– फली । फलित- तरुनामानि ॥ प्रफुल्लो — विकसिते | पुष्पितपादपादिनामानि || "दलितोन्मिपितोन्निद्राः प्रफुलश्च विजृम्भितः' । एतानि च ॥ स्युः - त्रिषु । एते त्रिलिङ्गाः ॥ ७ ॥ 6 1 विकसित B. 2 उत्फुल्लोन्मिषितोन्निद्रा उद्बुद्धोन्मीलितस्मिताः' इति मुद्रित वैजयन्त्याम.. स्थाणुर्वा ना ध्रुवः शङ्कुर्हस्खशाखाशिफः क्षुपः ॥ ८ ॥ अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिलता । लता प्रतानिनी वीरुद् गुल्मिन्युलप इत्यपि ॥ ९ ॥ (वि.) स्थाणुरिति – वायुना विहतोऽपि तितीति स्थाणुः । ‘ष्टा गतिनिवृत्तौ ' । चलनाभावाद् ध्रुवतीति ध्रुवः । 'ध्रुव' गतिस्थैर्ययोः' । शङ्कतेऽस्मान् तस्करादिकमिति शकुः । ‘शकि शङ्कायाम् । सर्वशाखाव्यपेतवृक्षमूलनामानि || ह्रस्वाः शाखाः शिफा: