पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३. शैलवर्गः] दाक्षिणात्यव्याख्योपेतः २१३ (वि.) दरीति – दीर्यते दरी | 'ॠ विदारणे' । कं कुत्सितं दृणातीति 'कन्दरः । केन जलेन दीर्यत इति वा । भित्तिवद्भासमानपर्वतपार्श्वनामनी ॥ देवैः खन्यत इति देवखातम् । 'खनु अवदारणे' । विल्यत इति विलम् । 'बिल भेदने' । देवखातं च तड्रिलं च देवखातविलम् । तस्मिन् गुहागहरशन्दौ वर्तेते । गृहत्यन्धकारमिति गुहा । ‘गुहू संवरणे’। सिंहादिभिर्गाह्यत इति गह्वरम् । 'गाहू विलोडने' । पर्वतान्त- राकृत्रिमविवरनामनी || गण्डा इव शैला गण्डशैला: | गण्डा : 'स्थूलाः शैला वा । भूकम्पादिना गिरिच्युतस्थूलोपलनाम ॥ ६ ॥ 2] कन्दर° B1, Ks. 3 गुह्यते Fa. 4 गतिं ह्वरतीति, 5 दरीगृहनामनी B1, I, Ks; देवखातबिलशब्दौ गुहापर्यायाविति 6 गुरव: F1, K6; गिरे: च्युताः स्थूलोपला गण्डाकाराश्च ते शैलाकाराच 1 कन्दरा वा B1, Kg. ‘हूट्टू कौटिल्ये' Ptg. केचित् I, K.. गण्डशैला: F2. (पा.) दूरी चा स्त्री | गिरिनारनामनी | भापया 16 पर्वतमुयोक्कशिशु' । देव — गह्वरम् | 'गुहानामानि || षडपि पर्याया" इति केचित् । 'दूरी 'गुहा कन्दरोऽक्ली ' इति वैजयन्ती (प्र. ४१, श्लो. ६) । गण्डरौलाः - गिरेः । गिरेः च्युताः पृथुलोपला: S गण्डशैलाः स्युः । अनुक्तम्–'दन्तास्तून्नतपापाणाः' । उच्चोपलनाम'। भाषया 'ढक्कनि- निल्पुराल्लु' ॥ ६ ॥ 1 ‘ लोय' B3. 2 सुरनिघातनामानि A1. 5 पृथूपला: B3. 6 ला दन्ताः स्युः As. 3 एकार्थके Ai. 4 दरीगृह B3. खनिः स्त्रियामाकरः स्यात् पादाः प्रत्यन्तपर्वताः । उपत्यकाद्रेरासन्ना भूमिरूधर्ध्वमधित्यका ॥ ७ ॥ धातुर्मनः शिलाद्यद्रेर्गैरिकं तु विशेषतः । निकुञ्जकुञ्जौ वा क्लीवे लतादिपिहितोदरे ॥ ८ ॥ इति शैलवर्ग: ७ (वि.) खनिरिति — खन्यते रत्नादिकमन्त्रेति खनिः । 'खनु अवदारणे' । स्त्रियाम् ।। आकीर्यन्ते “धातवोऽत्रेत्याकरः । ‘कृ विक्षेपे' | लोहादिधातुखननस्थाननामनी ।। "पादा इव तिष्ठन्तीति पादाः । प्रत्यन्ते समीपे पर्वताः प्रत्यन्तपर्वताः । समीपस्थक्षुद्रपर्वत-