पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ अमरकोशः [द्वितीयकाण्डः कटकोSस्त्री नितम्बोऽद्रे: स्नु: प्रस्थ: सानुरस्त्रियाम् । उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः ॥ ५॥ (वि.) कटक इति–कटत्याकाशमावृणोतीति कटकः। ‘कटे वर्षावरणयोः’। पर्वतस्य नितम्बप्रायत्वात् नितम्बः | अद्रिनितम्बनाम ॥ स्नौति जलंमिति 'स्नुः । ‘ष्णु प्रस्रवणे’। ‘प्रतिष्ठन्तेऽस्मिन् समभूभागत्वात् प्रस्थ: । 'ष्ठा गतिनिवृत्तौ'। सनोति 'सुखं ददाति उपवेशन' इति सानुः । अस्त्रियाम् । 'षणु दाने ' । फलकाकारावस्थित- महाशिलानामानि ॥ उनत्ति जलसंपर्केणेत्युत्सः । ' उन्दी क्लेदने' । आपः प्रस्रवन्त्यस्मात् शिलासंध्यादाविति प्रस्रवणम् । ' स्रु गतौ' ! पर्वतान्ताद् बहिर्निर्गत ल्पस्यन्दितनीर- नामनी" ॥ वारिणः प्रवाहः वारिप्रवाहः । निर्झर्यते 'कालेन स्वल्पो' भवतीति निर्झरः । झरश्च’ । ‘झूष् वयोहानौ’। प्रवाहवत्प्रस्रवणनामानि ॥ ५ ॥ 1 Ptg adds स्नातीति, ' ष्णा शौचे'. 4 उपवेशेन I. 5 अम्भसा Pt2. 7 काले Ka. 8 स्वल्पीभवति K6. 2 प्रतिष्ठते स्थावरादिरत्रेति K6. 3 अवकाशं F2. 6 पर्वतान्ताद् बहिर्निर्गतस्य जलस्य नाम B1, Kg. 9 निर्झरा झरा इति वा पाठ: K5, Kg. (पा.) कटको - अद्रेः । अद्रिनितम्बप्रदेशनाम | स्नुः – अस्त्रियाम् । स्नुर्वप्रः सानुरस्त्रियाम् इति पाठान्तरम् । 'तद्धोगतविशालफलकशिलानामानि । 6 'आमेखलं संचरतां घनानां छायामधः सानुगतां निषेव्य । उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः ॥ ' इति कालिदासः (कु. सं. १. ५) । स्नुशब्द: प्रस्थवप्रशब्दसाहचर्यात् पुंलिङ्गः । वप्रशब्दः सानुशब्दसाहचर्यात् पुंनपुंसकः । 'स्नुः पुमानस्त्रियां वप्रः ' इति जयकोशः । उत्सः प्रस्रवणम् । प्रस्यन्दननामनी । '" निल्लुगारुंट' । वारिप्रवाहो – झरः । 'झारी झरी झलश्चापि ' । एतानि च । झरीत्युपचयविवक्षायां स्त्रीलिङ्गः । ‘झरीदत्तपरीरम्भदरी- सुप्तसरीसृपम्' इति । 'निपत्य प्रवहदुदकनामानि ॥ अनुक्तम् – 'नदी चेद्योजनातिगा'। योजनमतिक्रान्ता झरी नदीत्युच्यते ॥ ५ ॥ 6 1 B3 omits 'गत. 2 ° तलनामानि B3. निपत्य and adds गिरि 3 ‘ ऊंट' B3. 4 B3 omits दरी तु कन्दरो वा स्त्री देवखातबिले गुहा । गह्वरं गण्डरौलास्तु च्युताः स्थूलोपला गिरेः ॥ ६ ॥ ( दन्तकास्तु बहिस्तिर्यक् प्रदेशान्निर्गता गिरे :)