पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्डः (वि.) लोकालोक इति – एकस्मिन् भागे लोक्यते, एकस्मिन् भागे न लोक्यत इति 'लोकालोकः । ‘लोक दर्शने' । चक्राकारेण वलते संवृणोतीति चक्रवाल: । 'वल संवरणे'। भुवमावेष्ट्य स्थितस्य गिरेर्नामनी ॥ त्रयः कूट :: शिखराण्यस्येति त्रिकूटः। अत एव त्रिककुत् | त्रिकूटपर्वतनामनी ॥ सूर्यादिरस्यते अत्रेत्यस्तः । 'असु क्षेपणे' । अस्तमनुपलब्धि ग्रहनक्षत्राणां करोतीति वा । चरम: पश्चिमः स चासौ क्षमाभृच्च चरमक्ष्माभृत् । चरमगिरिनामनी ॥ सूर्यादयोऽत्र 'उदयन्त इत्युदयः । 'अय पय गतौ' । पूर्वश्चासौ पर्वतश्च पूर्वपर्वतः । उदयगिरिनामनी ॥ २ ॥ २१० 4 तिस्रः (त्रय: Pt2) 1 अस्थाभ्यन्तरं सूर्यकिरणैः प्रकाश्यते न बाह्यमिति प्रकाशाप्रकाशतया लोक्यते न लोक्यत इति J2, K3, Pt2. 2 भुवनम् Bi. 3 स्थितगिरे : Kc, Wa. ककुदो यस्य F2. 5 सूर्यादीनस्यत्यत्र W2; सूर्यादिर्नश्यत्यत्र K.. उद्यन्ति ग्रहाः सूर्यादयोऽस्मात् B1, K5, Ptg. 6 उदयन्ति K6 ; 7 पूर्वपर्वतनाम B1, Ks. (पा.) लोकालोकञ्चक्रवालः | लोकालोकपर्वतनाम || त्रिकूटः—समौ । त्रिकूट- पर्वतनामनी ॥ अस्तः–क्ष्माभृत् । अस्तपर्वतनाम | उदयः - पर्वतः । पूर्वपर्वतनाम । अनुक्तम्–‘मलयश्चन्दनाद्रि: स्यात्' । मलयपर्वतनाम || 'मन्थशैलस्तु मन्दर: ' । मन्द्रगिरिनाम । अस्तपर्वतमेव मन्दरपर्वत इति कतिचित् कथयन्ति । 'मन्दरोऽपरशैलो- ऽस्तः’ इति धनपालनिघण्टुः ॥ २ ॥ 1 चरम° B3. 2 उदय° A1. हिमवान् निषधो विन्ध्यो माल्यवान् पारियात्रकः । गन्धमादनमन्ये च हेमकूटादयो नगाः ॥ ३ ॥ (वि.) हिमवानिति – हिममस्यास्तीति हिमवान् । निषीदन्ति सुरा अत्रेति निषधः। ‘षद्ल विशरणगत्यवसादनेषु' । अगस्त्येन विद्वत्वाद् विन्ध्यः | ‘व्यध ताडने' । सूर्यपथं विध्यतीति वा । स एव धातुः । माल्याकारतास्यास्तीति' माल्यवान् । परितो यात्रा गमनमस्यास्तीति पारियात्रकः । गन्धेन 'मादयतीति गन्धमादनः । ‘मदी हर्षग्लपनयोः’।‘अस्त्रियाम् । हेममयाः कूटा अस्य हेमकूटः । अन्ये च हेमकूट दो गिरयः सन्ति । एतेषामुक्तान्येव नामानि प्रशस्तानि ॥ ३ ॥ । 1 गन्धर्वादय: Ks, Kg, W2- 4 माल्याकारत्वात् Ks, W2; माल्य: for 6 मदयति J2 ; K2, W2, Ptg add हर्षयति. 2° पदवीं F2, Pt2. माल्यवान् K2. 3 B1, Dg omit. 5 अत्र for अस्य K5. 7 अयं पुंलिङ्गेऽपि Fa, Pt2.