पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्ड: (पा.). मुखं निःसरणम् । गेहादिपुरोभागना मनी ॥ संनिवेशो निकर्षणम् । गृहाद्यपरभागनामनी। ‘ इंटुवेनक' । समौ – ग्रामौ | ग्रामनामनी । तत्र परिवसथादि- शब्दा अपि सन्ति। ‘ग्रामः पर्युपसंनिभ्यः प्रतेश्च वसथः परः' इति वैजयन्ती (ट. १५९, श्लो. २) ।। वेश्मभूः–अस्त्रियाम् । गृहभूमिर्वास्तु स्यात् । वेश्मशब्द उपलक्षणम्। 'ग्रामादि- भूमिर्वास्त्वस्त्री' इति वैजयन्ती (पु. १२९,लो. १०) ।। १९ ।। 1 गृहादि° B3. 2. आदयोऽपि B3. २०८ ग्रामान्तमुपशल्यं स्यात् सीमसीमे स्त्रियामुभे । घोष आभीरपल्ली स्यात् पक्कण: शबरालयः ।। २० ।। इति पुरवर्गः (वि.) ग्रामान्तमिति — 'ग्रामस्यान्तं प्रामान्तम् । उपगतः शल्यः कीलको यत्र चिह्नार्थं प्रक्षेपात् उपशल्यम् । 'शल' चलनसंवरणयोः' । ग्रामसमीपप्रदेशन मनी ॥ सीयते बध्यत इति सीमा । नान्तः । सीमा आकारान्तस्त्रीलिङ्गश्च । ‘षिञ् बन्धने' । ग्रामान्तनामनी ॥ घोषन्ति गावोऽत्रेति घोषः । 'घुषिर् अविशब्द' । आभीराणां गोपानां पल्ली ग्रामः आभीरपल्ली। गोपालग्रामनामनी ॥ पच्यते कन्नमत्र पक्कणः । ‘डुपचष् पाके' । शबन्ति भ्रमन्तीति शबराः । 'शब भ्रमणे ' । तेषामालय: शबरालयः । शबरालयनामनी ॥ २० ॥ इति श्रीलिङ्गयसूरिविरचिता याममरकोशपदविवृतौ पुरवर्गः 2 F2 adds समीपं. 3 ‘ शल गतौ ’ F2 ; Ke adds 4 प्रथमो नकारान्तः द्वितीयस्तु आकारान्त: F2. 5' घुष 1 W2 omits 3 lines. समीपभ्रमणे साधु वा. घुष्टौ ' F2. 6 घृतादिक्रयार्थं जनैः पल्यते गम्यत इति पल्ली J2; पलन्ति दध्यादिक्रयार्थ- मन्त्रेति, ‘पल गतौ’ F2. (पा.) ग्रामान्तम् – स्यात् । ग्रामान्तनाम ॥ अनुक्तम्– ‘प्रान्तरं ग्रामयोर्मध्यम्' । ग्रामद्वयमध्यं प्रान्तरं स्यात् ॥ सीमसीमे – उभे । सीमनामनी । 'द्वथच्कमसिसुसन्नन्तम्' (३. ५. २४) इति विशेषविधिरबाधितः । 'सीमभिः सस्यसंपन्नैः' इति । ‘मर्यादावधि