पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्डः २०६ ' वट वेष्टने' । इयर्ति यातायातप्रकारेणेति अररम् । 'ऋ गतौ' । द्वारपिधाननामनी ॥ तत् कपाटं विष्कम्भ्रातीति विष्कम्भः | 'स्कम्भु रोधनस्तम्भनयोः' । 'अरेण कर्षणेन गलतीत्यर्गलम् । 'गल अदने स्रवणे च ' । कवाटानुद्घाटनाय निर्मितदारुयन्त्र- नामनी ॥ १७ ॥ 2 Ptg adds प्रविशतां. 1 नख इव W2. “ पट शब्दे' F2, Pt2. 4 ' ष्कभि स्कभि प्रतिबन्धने' K3, Kg. न गलतीत्यर्गलम् J2, K3, K5; परेण K5. (पा.) कूटं – तस्मिन् । पुरद्वारेऽक्रम निम्नमृत्कूटो हस्तिनखः स्यात् । ' शनैर नीयन्त रयात् पतन्तो रथाः क्षितिं हस्तिनखा दखेदैः' इति माघ : (शिशु. ३.६८) । 'वंकदारम्' । कवाटम् – तुल्ये । द्वारपिधाननामनी ॥ त्रिलिङ्गः कवाटः | कवाटः, कवाटी, कवाटम् । पवर्गमध्य इति रभसकोशकारेणाभ्यधायि । कपाटः कपाटीति। अररं नपुंसकमेव। ‘अथ त्रयी कपाटोऽपि कवाटोऽप्यररं न पुम्' इति वैजयन्ती' (पृ. १६२, श्लो. ४६) । अररीत्यपचयविवक्षायां स्त्री | पुंलिङ्गोऽररिशब्दोऽप्यस्ति । 3 कैर्वातैः पाटयति भाषत इति वा । 5 अरणे कर्षणे F2; 6 ‘अप्यन्वेष्टुं रतिगृहगुहां गन्धवाहेन कार्ये प्रेर्यन्तेऽमी परमररयो हर्म्यवातायनानाम् । मुद्रितग्रन्थे. इति चन्द्रकाव्यम् । अनुक्तम् – 'घर्घरो द्वितलादीनामधोद्वारकवाटिका'। द्वितलत्रितलादि- गृहद्वारकवाटिका घर्घर: स्यात् । तद्विष्कम्भो– न ना | कवाटधारकलोहदण्डादि कमर्गलं स्यात् । 'द्वारयन्त्रं तु तालकम्' इत्यल्पार्गलपर्यायञ्च पृथक् । 'तलुपुघडिय' । ' वितण्डस्त्वर्गला त्रयी' इत्ययस्तालकपर्यायोऽपि पृथक् । 'बीगेमु' ॥ १७ ।। 1 पकारमध्यम: B3, 2' अथ त्रय्यौ कवाटोऽपि कुवाटोऽप्यररं न पुम्' इति 3 दारुदण्डमयं यत्कवाटधारकम् A1. आरोहणं स्यात् सोपानं निश्रेणिस्त्वधिरोहिणी । संमार्जनी शोधनी स्यात् संकरोऽवकरस्तया ॥ १८ ॥ (वि.) आरोहणमिति – आरोहन्त्यनेनेत्यारोहणम् । ‘रुह बीजजन्मनि प्रादुर्भावे च'। सह उपानमन्त्यत्रेति सोपानम् । ‘णम प्रहृत्वे शब्दे' । सोपाननामनी ॥ 1 निश्रयन्ति ऊर्ध्वतलमनयेति निश्रेणिः । ‘श्रिञ् सेवायाम्' । अधिरोहत्यनयेति अधिरोहिणी’। दारुनिर्मितसोपाननामनी ॥ संमाष्टर्ध्यनयेति' संमार्जनीं । ‘मृजूष शुद्धौ'। 'शोधयत्यनयेति शोधनी । 'शुध शौचे' । अङ्गणादौ रजः समूहनिराकरणसाधन -