पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२. पुरवर्गः] दाक्षिणात्यव्याख्योपेतः २०१ वासः। धनिकानां निवासः हर्म्यादिसंज्ञकः स्यात् । आदिशब्दः पर्यायवचनः । ‘हर्म्यं च मालिका ' । प्रासादो देवभूभुजाम् । देवनृपवास: प्रासादसंज्ञ: स्यात् ॥ ९ ॥ 1 जनाश्रयशालानाम B3. 2 °आवास: B3. सौधोऽस्त्री राजसदनमुपकार्योपकारिका । स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च ॥ १० ॥ विच्छन्दकः प्रभेदा हि भवन्तीश्वरसझनाम् । (वि.) सौध इति – सुधायोगात् सौधः । राज्ञां सदनं राजसदनम्। 'राज- भवननाम || उप समीपे क्रियत इत्युपकार्या। प्रयाणे' उपकरोतीति उपकारिका । पटकृतराजवेश्मनामनी || स्वस्ति शुभं कायतीति स्वस्तिकः । 'कै शब्दे' । सर्वतो भद्रमस्येति सर्वतोभद्रः। नन्दिमानन्दम् आवर्तयतीति नन्द्यावर्त: । आदिग्रहणाद् रुचकवर्धमानादि गृह्यते । विशिष्टः छन्दोऽत्र विच्छन्दकः । एते ईश्वरसद्मनां विच्छन्दक- प्रभेदाः रचनाविशेषा भवन्ति । रचनाविशेषयुक्तनृपगृहाणां नामानि ॥ १० ॥ 1 सुधालितत्वात् F2 ; Kg adds अस्त्रियां. 4 प्रयाणाय W2, Ptg. रुपक्रियते F2. add 'वृतु वर्तने '. 2 राजसदन ° Kg. W2. 3 पटादिभि- 5 नन्दमानन्दमावर्तयतीति Pto; W2, Pta 6 एतानि ईश्वरसझनामानि W2. (पा.) सौधो- राजसदनम् | राजगृहनामनी | उपकार्योपकारिका । पटादि- कृतराजगृहस्थाननामनी । 'गृहस्थानं मतं ' राज्ञामुपकार्योपकारिका' इति हलायुधः ( आ. मा. . १३५) ।। स्वस्तिकः–सद्मनाम् । स्वस्तिकसर्वतोभद्रनन्द्यावर्तरुचकवर्धमाना राजगृहरचनाविशेषाः । तत्स्वरूपं तु— 6 ‘अपरान्तगतोऽलिन्दः प्रागन्तगतौ तदुत्थितौ चान्यौ । तवधिविधृतश्चान्यः प्राग्द्वारं स्वस्तिकं शुभदम् ।। अप्रतिपिद्वालिन्दं समन्तगे वास्तु सर्वतोभद्रम् । नृपविबुधसमूहानां कार्य द्वारैश्चतुर्भिरपि ।। नन्द्यावर्तमलिन्दैः शालाकुड्यात् प्रदक्षिणान्त्यगतैः । द्वारं पश्चिममस्मिन् विहाय शेषाणि कार्याणि ॥ प्राक्पश्चिमावलिन्दावन्त्यगतौ तद्वधि स्थितौ शेषौ । रुचकं द्वारं न शुभदमुत्तरतोऽन्यानि शस्तानि ||