पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ अमरकोशः [द्वितीयकाण्ड: रत्नकोशः ।। गृहं - उदवसितम् । गेहोदवसितशब्दयोगृहशब्देन' सामानाधिकरण्यं लिङ्गान्तरसंभावनार्थम् । 'न नोदवसितं न स्त्री गेहं पुंभूम्नि वा गृहम्' इति वैजयन्ती (पु. १६०, श्लो. १९) । वेश्म – सदनम् | वस्तमित्यत्रान्तःस्थादिपाठे ' वस्तं वस्त्यं निकेतनम् ’ इति वैजयन्ती (पृ. १६०, . १७) । पवर्गादिपाठे 'संपद्गुणातिशयपस्त्य रुचं 'तवेति' इति धर्मशर्माभ्युदयपद्मचित्रम् (१९. ९९) । भवनाग / रमन्दिरम् - आलयाः । गृहनामानि ॥ ४–५ ॥ 1 °गाड B3. 2 ° शब्दसामाना ° A1. 3 तवैति इति मुद्रितग्रन्थे. वासः कुटी द्वयोः शाला सभा संजवनं त्विदम् । चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम् ॥ ६ ॥ (वि.) वास इति – वसन्त्यस्मिन्निति वासः | ‘वस निवासे' । कुटति 6 कुटिलीभवतीति कुटी । 'कुट कौटिल्ये' । कुट्यन्ते पशवो बध्यन्तेऽस्मिन्निति वा । कुटी द्वयोः । शलन्त्यस्यामिति शाला । 'शल' गतौ ' । 'शाल्यते वा । 'शाल श्लाघायाम् ' । सह भान्त्यस्यामिति सभा । 'भा दीप्तौ' । सभागृहनामानि ॥ संजवन्ते संगच्छन्ते चतस्रः शाला अत्रेति संजवनम् । संवहनमिति पाठे संवहन्ति मिलन्त्यत्रेति । गत्यर्थो धातुरत्र । चतस्रः शाला: समाहृता अत्रेति चतुःशालम्' । चतुःशालगृहनामनी ॥ पर्णैः कृता शाला पर्णशाला । उटैस्तृणपर्णैर्जायत 10 इति उटजः । 'जनी प्रादुर्भावे ' । मुनिसदननामनी ॥ ६ ॥ 1 W2 adds विशेषेण. 2 संगच्छन्ते K6. 3 ' शल चल आशुगमने' K2, Kg. 4 शालते Kg, W2. 5 Fg adds पुत्रादिभिः 6 Fg, Ptg add मिथ: 7 संहननमिति पाठे संहन्ति मिलत्यत्रेति । 'हन हिंसागत्योः' । गत्यर्थो समाहार: Pt2. 9 वर्णै: शालत इति Fa 8 धातुरत्र B1, J2, Kg. 10 Kg omits पर्णै:. चतसृणां शालानां (पा.) वासः– सभा | गृहनामानि | अनुक्तम् – 'निवासावसथावासा वास्त्व- स्त्री निर्वृतं कुलम्’। एतानि षट् च । संजवनं - चतुःशालम् | चतुःशालगृहनामनी । ‘तोड्डिल्लु’ ॥ मुनीनां – अस्त्रियाम् । आश्रमनामनी । 'आश्रमे तु पर्णशालोटजमस्त्रि- याम्" इति वैजयन्ती (पृ. १६१, श्लो. २६) ॥ ६॥ 1 • °उटजोऽस्त्रियाम्' इति मुद्रितग्रन्थे.