पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२. पुरवर्गः] दाक्षिणात्यव्याख्योपेतः भित्तिः स्त्री कुड्यमेडूकं यदन्तर्न्यस्तकीकसम् । गृहं गेहोदवसिते वेश्म सद्म निकेतनम् ॥ ४ ॥ निशान्तवस्त्यसदनं भवनागारमन्दिरम् | गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः ॥ ५ ॥ (वि.) भित्तिरिति - भिद्यत इति भित्तिः । स्त्रियाम् । 'भिदिर् विदारणे' । कुड्यां साधु कुड्यम् । कुड्यत इति वा । 'कुडि संघाते' | 'मृन्मयावरणनामनी ॥ इल्यते लिप्यतेऽस्थि अन्तरिति एडूकम् । 'इल स्वप्नक्षेपणयोः' । सास्थिभित्तिनाम || "गृह्णाति सर्वमिति गृहम् । 'ग्रह उपादाने' । गाह्यत इति गेहम् । 'गाहू विलोडने' । वल्कलादिन। उद् ऊर्ध्वमवसीयत इत्युदवसितम् । उदवसीयते वध्यते वंशादिभिरिति वा । 'पिञ् बन्धने' । विशन्त्यस्मिन्निति वेश्म । 'विश प्रवेशने' | सीदन्ति तिष्ठन्त्यति सद्म। 'पद्ऌ विशरणगत्यवसादनेषु' | अनिकेतयन्ति निवसन्त्यस्मिन्निति निकेतनम् । ' कित 'निवासे' । निकेत्यते स्थीयतेऽस्मिन्निति वा । नितरां शाम्यति दुःखमत्रेति निशान्तम् । 'शमु उपशमे' । अवश्यं निशायामम्यते गम्यत इति वा । 'अम गत्यादिषु' । 'वस्तुं साधु वस्त्यम् । 'वस निवासे' | अवस्त्यमिति पाठे अवस्त्यायते संघीभवतीत्यवस्त्यम्' । 'स्त्यै शब्दसंघातयोः' । सदन्त्यत्र सदनम् । 'पल विशरणादौ ' । भवन्ति 'वाला अत्रेति भवनम् । 'भू सत्तायाम' । अगा वृक्षा ईर्यन्ते नीयन्ते स्वनिर्माण' इत्यगारम् | 'ईर प्रेरणे' । अगान वृक्षान् स्तम्भभूतानियतति वा । ‘ऋ गतौ’। मन्दन्ते 10 मोदन्तेऽन्नेति मन्दिरम् । 'मदि स्तुतिमोहमद स्वप्नकान्तिगतिपु' । मन्द्यन्ते सुप्यन्तेऽत्रेति वा । गृहशब्दः पुंसि भूम्न्येव । गृह्णन्ति प्रविष्टानिति गृहाः । 'ग्रह उपादाने' । चात् क्लीवमपि । गृहाणि निचीयते द्रव्यमत्रेति निकाय्यः । 'चिञ् चयने' । निलीयन्ते आलीयन्ते जन। अत्रेति निलयः । आलयश्च । 'लीङ् श्लेषणे' । गृहनामानि ॥ ४५ ॥ 1 मृण्मय° Da, K5, Kg. pages. " निकेतन्ति F2. 7 अपस्त्यायते संघीभवतीति अपस्त्यम् J2. 9 स्वनिर्माणाय B.. नास्ति Kc, W2. १९७ 2 गृह्यते पुरुषेणार्जितं धनमिति Pia; F1 omits 5 5 दुःखानि W2. 6 वस्ती J2. शाला: B1; भवन्त्यस्मिन् पुत्रादव: F2. 11 गृहा: भूनि पुंस्थेवेति नियमो 4 रोगापनयने च W2. 8 10 मोदं प्राप्नुवन्ति W2. (पा.) भित्तिः– कुड्यम् | कुड्यनामनी || एडूकं—कीकसम् । अन्तर्गतास्थि कुड्यनाम। ‘मेत्तिनकोड'। एडुकमित्यप्यस्ति । 'एडुकमन्तर्गतास्थिकुड्यं स्यान्' इति