पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२. पुरवर्गः] दाक्षिणात्यव्याख्योपेतः २. पुरवर्ग: पूः स्त्री पुरीनगर्यो वा पत्तनं पुटभेदनम् । स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात् पुरम् ॥ १ ॥ तच्छाखानगरं वेशो वेश्याजनसमाश्रयः | 6 (वि.) पूरिति - पूर्यते जनैरिति पू: । 'पू पालनपूरणयोः ' । रेफान्तस्त्रीलिङ्गः । पुरी च | क्रीडार्थं नगाः वृक्षाः पर्वता वा सन्त्यत्रेति नगरी । पुरीनगयौँ विकल्पेन स्त्रियौ। पत्तनसाहचर्यात्' नपुंसकेऽपि । पतन्ति जना अत्रेति पत्तनम् । 'पत्ऌ गतौ' । पट्टणमिति पाठे पटन्ति गच्छन्ति जना अत्रेति पट्टणम् । 'पट गतौ' | पुटमगारं भियतेऽत्रेति पुटभेदनम् । 'मिदिर् विदारणे' | पुढा:" घृतघटाया जनसंमर्दादस्मिन् भिद्यन्त इति वा । तिष्ठन्त्यस्मिन्निति स्थानीयम् । अकुतोभयत्वान् स्थानाय वासाय हितम् इति वा । 'ष्ठा गति निवृत्तौ । नियतं गच्छति जनोऽत्रेति निगमः । प्रधानपुरनामानि || वृक्षस्य शाखा यथा तथा प्रधाननगरस्याङ्गं शाखा नगरम् । प्रधानपुरा दन्यपुरनाम || विशन्ति कामुका अत्रेति वेशः । 'विश प्रवेशने ' । वेश्याजनस्य समाश्रयो वासस्थानम् । "गणिकासमूहस्थाननाम ॥ १ ॥ 2 क्रीडार्था: Kg. 3 1 पूर्यते जनैरिति F2.

  • पुरीनगरीशब्दौFp.

4 साम्यात् F1. .5 'अट पट गतौ ' B1, J2, Kg. 6 पुटा मृद्धटादय: W2. 7B F add 'गम्ल गतौ . मूलनगरस्य वृक्षमायस्य शास्त्रासदृशत्वात् शाखानगरम् F.. 8 9 वेश्याजन' F.. 6 (पा.) पूः । | रेफान्तः स्त्रीलिङ्गश्च | पुरीनगयौँ वा । पाक्षिकस्त्रीलिङ्गौ । ‘पीठं क्रोडं रसनं तुम्बं नगरं च मन्दिरापुयाँ' इत्यरुणदत्तलिङ्गानुशासनात् पक्षे नपुंसक- लिङ्गौ। पट्टणं–निगमः । नगरनामानि । 'पट्टणं पुटभेदनम् । पत्तनं च' इति वैजयन्तीपाठान् (पृ. १५९, लो. ३-४) पत्तनशब्दोऽप्यस्ति । अन्यत्तु - शाखानगरम् । मूलनगरादन्यन्नगरं यत्तच्छ| खा नगरं स्यात् । अनुक्तम्- 'स्कन्धावारो' राजधानी दुर्ग च कटकोऽस्त्रियाम् ' । राज्ञां प्रधाननगरीनामानि ॥ वेशो- समाश्रयः । वेश्याजनाश्रयो वेशः स्यात् । अनुक्तम् – 'वेण्ठा विटजनाश्रयः' । विटजनाश्रयः वेण्ठा स्यान् ॥ १ ॥ 3 पुरं B3. 4 स्कन्धाधारो A1, Bar 1 पट्टनं B3- 2 पट्टनमिति मुद्रितग्रन्थे. 5°नगर° B3. आपणस्तु निषद्यायां विपणिः पण्यवीथिका ॥ २ ॥