पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ अमरकोशः J Pt2 omits इव. 2 ° पालित° B1, F1, W2. देश: F 2. सुराज्ञि देशे राजन्वान् स्यात् ततोऽन्यत्र राजवान् । गोष्ठं गोस्थानकं तत्तु गौष्टीनं भूतपूर्वकम् ॥ १३ ॥ (वि.) सुराज्ञीति – शोभनो राजा यस्मिन् सः राजन्वान् । सुराजदेशनाम ॥ राजा अत्रास्तीति राजवान् । राजवदेशनाम ॥ गावोऽत्र तिष्ठन्तीति गोष्ठम् | ‘ष्ठा गतिनिवृत्तौ’। ‘गोस्थाननाम || 'गावो यत्र प्रागासन् तत् गौष्टीनम् । पुरातनगोस्थान- नाम ।। १३ ।। 1 यस्य Pt2; सुराजा, तस्मिन् सुराज्ञि F2. स्थानं गोस्थानं. 2 अस्मिन् F2. 3 F1 adds गवां 'पूर्वं भूतं भूतपूर्वं, भूतपूर्वकं पुरातनं तत् गोस्थानं F2; भूतपूर्व गोष्ठं J2. 4 3 Pt 2 omits इव. पर्यन्तभूः परिसरः सेतुरालौ स्त्रियां पुमान् । वामलूरुश्च नाकुश्च वल्मीकं पुंनपुंसकम् ॥ १४ ॥ [द्वितीय काण्ड 4 पालितो 1 °भूमि° D2, J2, K3, Kg. 4 वामैर्भोगिभिर्ल्यत इति B1, Kg. भवतीति B1, K5. संवरणे संचरणे च ' B1, Pt2. (वि.) पर्यन्तभूरिति – पर्यन्ते उपान्ते भूः पर्यन्तभूः । परितः सरन्त्यत्रेति परिसरः । 'सृ गतौ । ग्राम|दिसमीपभूनामनी ॥ सिन्वन्ति बघ्नन्ति मृत्पाषणादिभिरिति सेतुः । ‘षिञ् बन्धने' | अल्यते निवार्यते प्रवाहोऽनयेत आलिः | आली च । 'अल भूषणपर्याप्तिवारणेषु' । स्त्रियाम्' आलिः सेतुः पुमान् । सेतुनामनी ॥ वामैः प्राणिभिः लूयत इति वामलूरुः । वामलूर इति वा पाठ: । 'लूञ् छेदने' । प्राणिनः प्रवेशे नमन्त्यत्रेति नाकुः॰। ‘णमु प्रहृत्वे शब्दे च ' । वलन्ते' प्राणिनोऽत्रेति वल्मीकम् । पुंनपुंसके॰ । ‘ वल ‘संचलने ' | वल्मीकनामानि ॥ १४ ॥ 6 2 जलं Pt2. 5 प्रविश्य B1, K5. 8 7 वलते संवृणोतीति F2. 3 F1 adds वर्तमानायाम् 6 अकुः अभूमि: आधारो न पुंलिङ्गनपुंसकलिङ्गौ F2. 9 वल अपनं वर्त्म मार्गाध्वपन्धानः पदवी सृतिः । सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥ १५ ॥