पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः ‘स्याद् व्यासभापिते ग्रन्थे जम्बूद्वीपे च भारतम् । ' 'पुंनपुंसकयोर्वर्षं जम्बूद्वीपाच्दवृष्टिषु ।' १. भूमिवर्गः] इत्युभयत्र रुद्रः। अथवा 'हिमाद्रेर्दक्षिणभूतजम्बूद्वीपैकखण्डः पर।मृश्यते। ‘नाभीदं भारतं वर्ष हिमाद्रेस्तच्च दक्षिणम्' इति वैजयन्ती (३५. लो. ५) । शरावत्याः – पश्चिमोत्तरः । शरावत्याख्या नदी गोशानदिशः सकाशात् 'निर्ऋतिदिशं प्रत्यागत्य पश्चिमसमुद्रं प्रविष्टा । तन्नद्यवधि अङ्गवङ्गादिवहुभेदभिन्नः प्रागदक्षिणदेशः प्राच्यः स्यात् । तद्वधि गान्धारशूरसेनादिबहुभेद॒भिन्नः पश्चिमोत्तरदेश उदीच्यः स्यात् ॥ ६ ॥ 1 °शब्दस्यैव B3. 2 ‘ खिलमप्रहतं स्थानम्' इति मुद्रितपुस्तके. 3 °द्वीपपरामर्श: B3. 5 ईशान ° Bg. 6 नैर्ऋतीं दिशं B3. 4 °दक्षिणभव: A1. प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यदेशस्तु मध्यमः ॥ ७ ॥ आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोः । नीवृज्जनपदो देशविषयौ तूपवर्तनम् ॥ ८ ॥ (वि.) प्रयन्त इति – म्लेच्छानां देश: म्लेच्छदेशः । प्रतिगतोऽन्तं प्रत्यन्तः । 1शरावत्यन्तप्रतिगतशिष्टाचाररहितदेशनाम || मध्यञ्चासौ देशश्च मध्यदेशः | मध्ये भवः मध्यमः | हिमवद्विन्ध्यविनशनप्रयागमध्यगतदेशनामनी ॥ आर्या वर्तन्तेऽत्रेति आर्या- वर्तः । पुण्या भूमिः पुण्यभूमिः । हिमवद्विन्ध्यमध्यदेशनामनी ॥ नितरां वर्तन्ते जना अत्रेति नीवृत् । 'वृतु वर्तने' । नियमेन वर्तन्त इति वा । जनपदशब्दसाहचर्यात् नीवृच्छन्दः पुंलिङ्गः । जनाः पद्यन्तेऽत्रेति जनपढ़: ' | 'पद्ऌ गतौ' । प्रसिद्धराष्ट्रनामनी ।। दिश्यत इति देशः । ‘दिश अतिसर्जने' । विशेषेण सिनोति बध्नाति' प्रीतिमिति विषयः । 'पिञ् बन्धने ' । उपयोगवशात् वर्तन्तेऽत्रेत्युपवर्तनम् । विंशत्त्रिंशद्र मात्मकस्थाननामानि ।। ७-८ ।। 1 °नयन्त° K6; 'हिमवद्विन्ध्ययोर्मध्यं यत् प्राग् विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेश: प्रकीर्तितः ॥' १८९ इति मनुः (२. २१) B1, Pt2. 2 °विन्ध्यनग° Kg. 3 B adds आ समन्तात्. 4 ‘आ समुद्रात्तु वै पूर्वादा समुद्राच्च पश्चिमात् । तयोरेवान्तरं गिर्योरार्यावर्त विदुर्बुधाः ॥' इति मनुः (२. २२) B1, Pt2. 6 जनैः पद्यत इति वा D2, K2, O; जनानां पदं F2; पुंस्त्वं लोकात् B.. 'वृतु वर्तने'; 5 नियतं वर्तन्ते B1, Ks, W2; F2 adds तकारान्तः 7 धृतिमिति K2.