पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्ड: (पा.) ऊषवान् – अन्यलिङ्गौ । क्षारमृत्तिकावत्प्रदेशनामनी । विशेषणं विव- क्षितं चेत् तौ द्वावप्यन्यलिङ्गौ । तदविवक्षितं चेत् नपुंसकावेच ॥ 'वर्षकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूषरम् ' । इति शिशुपालवधे (१४. ४६) । स्थलं स्थली । भूतलनाभनी ॥ समानौ - धन्वानौ । निर्जलप्रदेशनामनी ॥ द्वे – समे | अकृष्टभूतल- नामनी । 'पाडुनेल ' ॥५॥ 1 वनप्रदेश° A1. 2 निर्जलोन्नत' A1. १८८ 3 A1 adds हलेन. त्रिष्वथो जगती लोको विष्टपं भुवनं जगत् । लोकोऽयं भारतं वर्ष शरावत्यास्तु योऽवधेः ॥ ६ ॥ देश: प्रारदक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः । (वि.) त्रिष्वथो इति – जंगम्यते भृशं गच्छतीति जगती । जगच्च । गम्यते 6 जनैरिति वा । 'गम्ऌ गतौ' । लोक्यते सर्वमस्मिन्निति लोकः । 'लोक दर्शने' । विशन्त्यस्मिन्निति 2 विष्टपम् । 'विश प्रवेशने' । सर्वमस्मिन् ' भवतीति भुवनम् । लोकनामानि || भरतस्य राज्ञः इदं भारतम् । वृष्यते सिच्यते मेघैरिति वर्षम् । 'वृषु सेचने' । हिमवत्सेतुमध्यदेशनाम | प्राचा' सहितो दक्षिणो देशः प्राच्यः । शरावती- नद्यवधिभूतपूर्वदक्षिणदेशन म || उदीच्या सहितः पश्चिमो देशः उदीच्यः । उदीच्यां भवः उदीच्यः । पश्चिमेन सहितः उत्तरो देश: पश्चिमोत्तरः | शरावतीनद्यवधिभूत- पश्चिमोत्तरदेशनामनी ॥ ६ ॥ 1 जं भृशं गम्यते जनैरत्र B1, Ks; B1, Ks add प्रलयकाले. स्तप प्रतिघाते' B1, K3. 3 अस्मात् Kg; F2 adds 'भू सत्तायाम् '. नवांश: भरतस्य क्षत्रियस्येदं B1, K5. 5°नामनी B1, Kg, W2. 6 प्राच्या Kg. 2 विष्टपतीति, 'टप 4 जम्बूद्वीपस्य (पा.) त्रिषु । अत्र त्रिध्वित्यनेन खिलशब्दानुपदोक्ता प्रहतशब्द एव परामृश्यते । खिलं नपुंसकमेव । ‘2 खिलमप्रहता भूमि: ' इति हलायुधः (अ. मा. २. ३) । अनुक्तम्- 'नारट्टः स्फुटिता भूमि:' । स्फुटितभूमिर्नारट्टः स्यात् । 'बिटिकेनेल' । 'जन्तुप्राया कचङ्गला' । जन्तुभूयिष्ठा भूमिः कचङ्गला स्यात् । अथो जगती – विष्टपम् । 'विष्टपलोकौ नरौ' इति रत्नकोशमतात् पुंलिङ्गश्च । भुवनं जगत् | लोकसामान्यनामनी ॥ लोको- चर्षम् । असौ लोको भारतं च वर्षं च स्यात् । इदमा प्रत्यक्षजम्बूद्वीपः परामृश्यते।