पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८६ अमरकोशः [द्वितीयकाण्डः 16: बिभर्तीति विश्वंभरा। 'डुभृञ् 'धारणपोषणयोः' । 'स्थिरत्वात् स्थिरा । तिष्ठति सर्वमस्य | मिति वा । 'ष्ठा गतिनिवृत्तौ' । प्रियते नृपैरिति धरा । धरति विश्व वा। ‘‘धृञ् धारणे’। धरित्री धरणिश्च । क्षौतीति क्षोणिः । क्षोणी च । ‘टुक्षु शब्दे ' । जिनाति सर्वमस्यामिति ज्या । 'ज्या वयोहानौ' । जिनाति' सर्वान् पार्थिवानिति वा । कश्यपस्येयं काश्यपी । क्षियन्ति निवसन्ति सर्वेऽस्यामिति क्षितिः । 'क्षि निवासगत्योः ' । सर्वं भारं सहत इति सर्वसहा । 'षह मर्षणे ' । वसु धनमस्यामस्तीति वसुमती | वसु 10 धातीति वसुधा । ' डुधाञ् धारणपोषणयोः' । ऊर्जूयते पर्वतैरित्युर्वी । ऊर्णुञ् आच्छादने' । उरुत्वात् विस्तीर्णत्वाद्वा | वसु धारयतीति वसुंधरा । 6 'धृ धारणे' । गोत्राः शैला: 12 सन्त्यस्यामिति गोत्रा । तृणादिना भगवादीन् त्रायत इति वा । 'त्रैङ्-14 पालने' । 'कौति ध्वनतीति कु: । 'कु शब्दे ' । पृथुत्वात् पृथिवी । पृथ्वी च । पृथुना 16 वैन्येन सत्कृता वा । प्रथते वा । 'प्रथ प्रख्याने' । क्षमते भारं क्ष्मा । 'क्षमूष सहने' । क्ष्मायते 17 विधूनयते नृपनाशायेति वा । 'क्ष्मायी विधूनने' । अव्यते नृपैरित्यवनिः । स्वयमवति प्रजा इति वा । 'अव रक्षणे ' । मधुकैटभदैत्यमेदोयोगात् मेदिनी 39। ‘ञिमिदा स्नेहने’ । मह्यत इति मही । 'मह पूजायाम्' । महिर्वा । अत्र भूम्यवनिक्षिति- क्षोणिमहिधरणिशब्दाः कृदिकारान्ताः । भूनामानि ॥ २-३ ॥

  • Additional verse in B1, F2.

2 Ks 3 ' चल संचलने' W2. 1 भवन्ति अस्याम् Ks. (उ. ४.४५). B1, Kc, Pt2. 6 तिष्ठति सदा Pt 2. 9 जिनाति सर्वे B1, Ks; जिनाति परिभवति बाधादिति Ke, U. 11 ऊर्जूयते आस्तीर्यते W2. 14 ‘ त्रा रक्षणे’ F1, Kg. adds 'भुव: कित्' इत्यौणादिको मिप्रत्ययः 4 रसयुक्तत्वात् F2. 5' भृञ् भरणे 7 शैलै: Wa. 16 पृथुचक्रवर्तिना Pt2. 19 मधुकैटभयो: मेदसा परिपूतत्वात् F2; परिप्लुतत्वात् Pt2. 8 धरतीति धरित्री F 2. 10 धनं धत्ते Bi, Kg. 12 पर्वता: F2, Pta. 13 गा: B1, W2, Pt2- 15 कायति, 'कै शब्दे' B1, Pt2 ; काले प्रतिध्वनिं करोति F2- 17 विधुनुते Ka. 18 अवति प्रजा: B1, K5, Pt2. (पा.) भूर्भूमिः – मही। भूमिनामानि । 'महिः सर्वसहा मही' इति ग्वैजयन्तीपाठात् (पृ. ३५, लो. ३) महिशब्दोऽप्यस्ति । अनुक्तम्- एतानि च ॥ २-३ ॥ ‘ रत्नगर्भा 'घनश्रोणिरुर्वरा सागराम्बरा | दुर्दरा गह्वरी धात्री भूतधात्र्यब्धिमेखला || रत्नसूः कुम्भिनी विश्वा धारिणी गौगिरिस्तनी ॥ " 4 धरणी Ba. 1' हेमा सर्वेसहा मही' इत्येव मुद्रितग्रन्थे. 2 घनश्रोणी Bs. 3 दुर्धरा B3.