पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयकाण्डः वर्गभेदाः वर्गाः पृथ्वीपुरक्ष्माभृद्वनौषधिमृगादिभिः । नृब्रह्मक्षत्रविट्शूद्रैः साङ्गोपाङ्गैरिहोदिताः ॥ १ ॥ (वि.) एवं प्रथमकाण्ड परिसमाप्य द्वितीयकाण्डे वक्ष्यमाणवर्गान् संग्रहेण वक्ति वर्गाः पृथ्वीतिश्लोकेन । पृथ्वी च पुरं चक्ष्माभृच्च वनौषधिश्च मृगादिश्च, तैरिह काण्डे पृथ्वीप्रभृतिभिः नृब्रह्मक्षत्रविद्रैः साङ्गोपाङ्गैः, अङ्गप्रत्यङ्गसहितैः वर्गा उदिताः वक्तुमुपक्रान्ताः ॥ १ ॥ 1 उदिता आरब्धा: Fa; अथ भौम/दिद्वितीयकाण्डमारभते F1. १. भूमिवर्गः भूर्भूमिरचलानन्ता रसा विश्वंभरा स्थिरा । धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः ॥ २ ॥ सर्वसहा वसुमती वसुधोर्वी वसुंधरा । गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही ॥ ३ ॥ ( * विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा । भूतधात्री रत्नगर्भा जगती सागराम्बरा ।।) (वि.) भूरिति—'भवति सर्वमस्यामिति भूः। ‘भू सत्तायाम्’ | ऊकारान्तोऽयं स्त्रीलिङ्गः । अव्ययं तु रेफान्तः । अस्यामिदम् अभूदिति 'भूमिः । न चलतीत्यचला । 'चल "कम्पने' । न विद्यतेऽन्तो यस्याः सा अनन्ता । रस्यते आस्वाद्यत इति रसा । ‘रस आस्वादने' । रसतीति वा । 'रस शब्दे ' । रसा अत्र सन्तीति वा । विश्वं