पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्ड: (वि.) अथ काण्डसमाप्तिं चिकीर्षुः अमरसूरिः एतत्काण्डोक्तवर्गान् संक्षेपेणाह- उक्तमिति । स्वः स्वर्गः व्योम आकाशः दिशश्च कालश्च वाचश्च शब्दादिश्च । आदिना रसगन्धादिः गृह्यते । नाट्यकं तत्संबन्धि गीतवाद्यादिकमुच्यते । पाताल- भोगिनरकं वारि च । द्वन्द्वैकवद्भावः । उक्तमित्यनेनान्ययः । एषां यत्संगतं स्वर्गे देवतादि, दिशि दिग्गजादि, काले उपरागादि, धीसंगतं विचारादि, वाचि श्रुत्यादि, शब्दे उदात्तादि, नाट्ये भ्रकुंसादि, पाताले कुहरादि, भोगिनि कञ्चुकादि, नरके पीडाबाधादि, वारिणि नौकापद्मोत्पलादि, एतत् सर्वमुक्तमस्मिन् काण्डे इत्यर्थः ॥ ४४-५ ॥ १८४ इति वंगलभट्टोपाध्यायसूरिसुतलिङ्गयसूरिविरचितायाममरकोशपद विवृत्तौ प्रथमकाण्डः समाप्तः 1 सनाट्यकं नाट्यवर्गेण सहितं Ks, U. (पा.) उक्तं – समर्थितः ।। ४४-५ ।। इति ‘श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसूरिविरचितेऽमरपदपारिजाते प्रथमकाण्डः 'श्रीवत्सान्वयमान्येन मल्लिनाथेन निर्मिते । व्याख्यानेऽमरसिंहस्य प्रथमः काण्ड उम्भितः || चकोरैरत्यन्तं परिदलितशालीनकिरणः प्रकुप्यद्राहूद्यद्विषशिखिशिखाशोषिततनुः । पुरारातर्भूषा कुवलयविकासेन किमभू- न्ममाप्येष ग्रन्थो भवति जगदानन्दजनकः ॥ 1 °नरसिंह ° A1. 2 verses in A1. 2 'प्रसक्त्या संगतं देवासुरसुधादिकं D2, I, Kg.