पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२. वारिवर्गः] दाक्षिणात्यव्याख्योपेतः १८३ (वि.) करहाट इति—कं जलम् उपरिवर्तनाद् रहयन्तीति करहाः पद्मादयः । ‘रह त्यागे’। तानि प्रतिदिनम् अभिवृत्याटतीति करहाट: । 'अट पट गतौ’ । करं नन्तीति करहा: मीनाः, तैरट्यते प्राप्यत इति वा । शिनोति क्ष्मां शिफा । 'शिञ् निशातने' । कन्दति भक्षणार्थं मत्स्यादिरिति कन्दः । 'कदि आह्वाने रोदने च' । पद्मादिमूलनामानि ।। किंचित् जलति जडीभवतीति किञ्जल्कः । 'जल घातने”। के जले सरतीति केसरः । 'सृ गतौ' । केसरनामनी ॥ संवर्तयति वेष्टयतीति संवर्तिका | ‘वृतु वर्तने' | नवोत्पन्नं दलं नवदलम् | नवदुलनामनी ॥ बीजानां पद्माक्षाणां कोशः आकरो बीजकोशः । वरं श्रेष्टं पद्ममटतीति वराटकः । 'अट पट गतौ' । बीजकोश- नामनी ॥ ४३ ॥ इति अमरकोशपदविवृतौ वारिवर्गः 1 कन्यते कन्द: B1, B2, Kg. 2 जघन्येB1, B2; घात्ये T. 4 वारिवर्गनामलिङ्गविवेचनम् I. (पा.) करहाटः – कन्दः । पद्मादिमूलनामानि | 'दानिगद्द' । किञ्जल्कः— अस्त्रियाम | केसरनामनी । अब्जादिकदम्बे षण्डमस्त्रियामिति विशेषविधिरन्ज- मात्र विषयः । 'अभूलिविलासिनीलुलितकेसरं केसरम्' इति प्रपञ्चयन्ति ॥ संवर्तिका नवदलम् । पद्मनूतनदलं संवर्तिका स्यात् || बीजकोशो वराटकः । पद्मबीजकोशो वराटकः स्यात् ॥ ४३ ॥ इति वारिवर्ग: 3T, Wr add पद्मादीनां. 1.A, adds ग्रन्थि after पद्मा दि. काण्डसमाप्तिः उक्तं स्वर्व्यामदिक्कालधीवाक्छन्दादि नाट्यकम् । पातालभोगिनरकं वारि चैषां च संगतम् ॥ ४४ ।। इत्यमरसिंहकृतौ नामलिङ्गानुशासने । स्वरादिकाण्डः प्रथमः साङ्ग एव समर्थितः ॥ ४५ ॥ इति श्रीमदमरसिंहकृते नामलिङ्गानुशासने प्रथमकाण्डः