पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [ प्रथमकाण्ड: (वि.) पुण्डरीकमिति – पुणति मङ्गलत्वात् पुण्डरीकम् । 'पुण कर्मणि शुभे । सितं च तदम्भोजं च सिताम्भोजम् । सितपद्मनामनी ॥ रक्तं च तत् सरोरुहं च रक्तसरोरुहम् । रक्तं च तदुत्पलं च रक्तोत्पलम् । कोका: चक्रवाका नदन्त्यस्मिन्निति कोकनदम् । रक्तपद्मस्य रक्तोत्पलस्य च नामानि ॥ नल्यते बध्यते पुष्पेणेति नालः । नालं च । 'ल बन्धने' | पद्मादिदण्डाकारवृन्तनामनी ॥ मृण्यते भक्ष्यत इति मृणालम् । ' "मृण तर्षणे', 'मृण हिंसायां' इति वा धातुः । बिस्यन्ते उत्सृज्यन्ते तन्तवोऽत्र भक्षणसमय इति बिसम् । 'बिस उत्सर्गे' | 'पद्मकन्दोपरिस्थितभक्ष्यनामनी ॥ भ्रमरेभ्यो रसं सनोतीति षण्ड: । 'षणु दाने ' । अब्जादिसमूहनाम ॥ ४२ ॥ १८२ 1 सितपुण्डरीकनाम U. 4 नाला इति स्त्रीलिङ्गत्वमपि W2. 7 B1, D2, K5, W2 add तन्तूनामुत्सृष्टत्वात्. (पा.) पुण्डरीकं सिताम्भोजम् । सितारविन्दनामनी ॥ अथ – कोकनदम् | शोणाम्बुजनामानि॥ ‘कन्दादं खरदण्डं च बिसखण्डं च तद्भवेत्' । इत्येतानि च ॥ नालो नलम् । कमलनालो नलमित्युच्यते । 2 चक्रा: K3. 3 B1, D, add ‘णद अव्यक्ते शब्दे'. 5 ' नल गन्धने' A, T. 6 ' मृण तर्पणे ' D2, Ks, U. '2 स्तनतापशून्यमवनम्रनलं बिसपत्रमत्र कुसुमास्तरणे । किमुतोज्झितान्यमनसा 'विगुणी सुरयोषित | विरहवल्लरिका ॥' - इति राघवपाण्डवीये ( द्विसं. १२.१८ ) || अथास्त्रियां – बिसम् | 'तामरसमूलनामनी । 'तामेरपेल्लु' ॥ अब्जा दिकदम्बे - अस्त्रियाम् । अब्जादिकदम्बं षण्ड: स्यात् । अब्ज- षण्डः, कुमुषण्डः । ' षण्ड: स्याद्विट्चरेऽब्जादिकदम्बे षण्डमस्त्रियाम्' इति रुद्राभिधानकोशान्मूर्धन्यादि:' । 'शडि रुजायां संघाते च ' । शण्डत इति शण्डः। पद्मशण्ड:- इति धातुप्रदीपात् तालव्यादिः ॥ ४२ ॥ — 1 अम्भोरुह° B1. printed text. 6 समूह: A1, B3. 2 ' सून for शून्य in the printed text. 4 ° वल्लकिका in the printed text. 7 A1 omits कोशात् . 3 विगुणा in the 5 पद्म° B3, Ba. करहाटः शिफा कन्दः किञ्जल्क: केसरोऽस्त्रियाम् ॥ ४३ ॥ संवर्तिका नवदलं बीजकोशो वराटकः । इति वारिवर्गः