पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२. वारिवर्गः] दाक्षिणात्यव्याख्योपेतः 1 ' शेवालं शैवलं प्रोक्तं जलशूकं च नीलिका' इति मुद्रितग्रन्थे. 3 शैवालं चाथ शीवालं चूर्णाभं लोहितं जले' इति मुद्रितपुस्तके. वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् | सहस्रपत्रं कमलं शतपत्रं कुशेशयम् ॥ ४० ।। पङ्केरुहं तामरसं सारसं सरसीरुहम् । विसप्रसूनराजीवपुष्कराम्भोरुहाणि च ॥ ४१ ॥ १८१ 2 नीलिका B3. (वि.) वा पुंसीति – पद्यतेऽत्र लक्ष्मीरिति पद्मम् । ‘पद्ऌ गतौ’ । नल्यते 2वध्यते चन्द्रेणेति नलिनम् । 'णल बन्धने । अरान् केसरान् विन्तीति अरविन्दम् । ' विद्ल लाभे ' । महच्च तदुत्पलं च महोत्पलम् | सहस्रं पत्राणि यस्य तत् सहस्रपत्रम् । केन जलेन मल्यत इति कमलम् । 'मल’ धारणे' | शतं पत्राणि यस्य तत् शतपत्रम् । कुशे जले शेत इति कुशेशयम् : 'शीङ् स्वप्ने' । पङ्के रोहतीति पङ्केरुहम्। ‘रुह बीजजन्मनि प्रादुर्भावे च ' । ताम्यति रसति चेति तामरसम्" । 'तमु ग्लानौ', ‘ रस आस्वादने' । ताम्यद्भिः रस्यत इति वा । सरसि भवं सारसम् । सरस्यां रोहतीति सरसीरुहम् । बिसस्य प्रसूनं विसप्रसूनम्' । राज्योऽस्य सन्तीति राजीवम् । पुष्णातीति पुष्करम् । 'पुप पुष्टौ'। 'अम्भसि रोहतीति अम्भोरुहम् । पद्मनामानि ॥ ४०-१॥ 1 पद्यते लक्ष्म्या सेव्यते, 'पद्ल सेवायाम्' B1, Di, K5, ए; 'पद गतौ ’ Wi. 2 भिद्यते Di, I, K, खिद्यते A, B1, T. 3' गल गन्धने, गन्धनं भेद: A, B1, T. ॐ' मल मल धारणे' B1, T. 8 केसरराजियोगात् Ptg. 4 वारिणा I; कं जलमलति भूपयतीति, 'अल भूपणे ' Pt.. 6 ताम: प्रकप रसोऽस्य Ptg. 7 विसं प्रसूनमस्त्र A, Bi. 9 शेषं स्पष्टम् A, T. (पा.) वा पुंसि - अम्भोरुहाणि च । पद्मनामानि | ‘सरसिजमप्सुजमव्जं सरोजमिन्दीवरं विसजम् । एतानि च ॥ ४-१ ।। पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे । रक्तोत्पलं कोकनदं नालो नालमथास्त्रियाम् ॥ ४२ ॥ मृणालं बिसमब्जादिकदम्बे षण्डमस्त्रियाम् ।