पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्डः (पा.) स्यादुत्पलं कुवलयम् । उत्पलमात्रनामनी । 'कलुव' | 'कुवेलं कुवलं च तत्' । एतें द्वे च ॥ अथ नीलाम्बुजन्म- नीलेऽस्मिन् । नीलोत्पलनामनी ॥ ' दोलाभमपि 'कन्दोट्टम्’ | एते द्वे च ॥ सिते – कैरवे | सितोत्पलनामनी ॥ अनुक्तम्–‘रक्तेऽस्मिन् 'रक्तमण्डलम्' । अतिरक्तोत्पलनाम ॥ ३७ ॥ 1 कन्दोष्ठं B3. 'रक्तकुण्डलम् B4. १८० 2 शालूकमेषां कन्दः स्याद् वारिपर्णी तु कुम्भिका ॥ ३८ ॥ जलनीली तु शैवालं शैवलोऽथ कुमुद्रती । कुमुदिन्यां नलिन्यां तु बिसिनी पद्मिनीमुखाः ॥ ३९ ॥ (वि.) शालूकमिति–शलत इति शालूकम् । ‘शल चलनसंवरणे’। उत्पलादि- कन्दनाम || वारि पिपर्ति आच्छादयतीति वारिपर्णी । 'पू पालनपूरणयोः' । वारिणि पर्णान्यस्या इति वा । वारि कुम्भयतीति कुम्भिका' । 'कुभि आच्छादने' । 'कुम्भिक इति वा पाठः । जलोपर स्थितलतारूपशाकनामनी ॥ जले नीली जलनीली । जले शेते शैवालम् । शैवलं च । 'शीङ् स्वप्ने' । 'शैवलनामानि || कुमुदान्यस्याः सन्तीति कुमुद्वती । कुमुदिनी च । कुमुद्दीर्घिकानामनी ॥ नलमस्यामस्तीति नलिनी | बिसमस्या- मस्तीति बिसिनी । एवं पद्मिन्यादीनि कुमुदिनीवत् ॥ ३८-९ ।। कुम्भिक: B2, T. 1 W1, Ptg add केन जलेन उभ्यत इति कुम्भिका, 'उभ पूरणे'. वा पाठ: A, B1, T. 3 जले पर्यस्तस्वल्पशैवालनामानि W1. 6 शैवाल I, U, W1. 5 नीलिका D2. 2 वारिपर्णस्तु 4 °वलयरूप ' 7 K₁ ends here. (पा.) शालूकम् – कन्द: स्यात् । सौगन्धिकादीनां कन्दः शालूकं स्यात् ।! वारिपर्णी—कुम्भिका । तोये पर्यस्तलतारूपशैवलनामनी । 'अन्तर्वजल्लि' ॥ जलनीली- शैवलः । शैवालनामानि । शेवालमित्यप्यस्ति । 'शेवालमपि शैवालं जलशुकश्च नीलिका' इति हलायुधः (अ. मा. ३. ६१) । शिफालमिति शैवलविशेषः । ' शिफाल' शैवलं यद्धि चूर्णाभं लोहितं जले' इति वैजयन्ती (पृ. १५३, श्लो. ४९ ) ॥ अथ – कुमुदिन्याम् । कुमुदस्तम्बनाम ॥ नलिन्यां – पद्मिनीमुखाः । पद्मस्तम्बनामानि | पद्मवत्सरोनामान्यपि भवन्ति। “बिसिनीपद्मिनीत्याद्याः पद्मस्तम्बे सरस्यपि ' इति वैजयन्ती (पं. १५३, श्लो. ४३) ।। ३८-९ ।।