पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ अमरकोशः [प्रथमकाण्डः शोणो हिरण्यवाहः स्यात् कुल्याल्पा कृत्रिमा सरित् ||३४|| शरावती वेत्रवती चन्द्रभागा सरखती। कावेरी सरितोऽन्याश्च संभेदः सिन्धुसंगमः ।। ३५ ।। 6 (वि.) शोण इति — शोणतीति शोणः । ' शोण्र वर्णगत्योः' । हिरण्यं वहतीति हिरण्यवाह: । 'वह प्रापणे' । शोणनदनामनी ॥ कुल्यते कुल्या' । ' कुल संस्त्याने बन्धुषु च ' । नदीमातृक क्षेत्रसेकाय अल्पकृत्रिमसरिन्नाम || शराः तृणविशेषा अत्र सन्तीति शररावती । वेत्रा' वेणुवलयाः सन्त्यस्यामिति वेत्रवती । चन्द्रभागाभ्यां गिरिभ्यां जाता चन्द्रभागा । चन्द्रेण' भागतो न्यस्ता वा । सरांस्यत्र सन्तीति सरस्वती । 'सरसि प्रवहतीति वा । कवेराद्रेजता कावेरी' | कवेरस्य राज्ञोऽपत्यं स्त्रीति वा । एतानि प्रत्येकं नदीविशेषनामानि ॥ अन्याश्च कृष्णवेण्यादयः सरितः सन्ति । ग्रन्थकारेणात्र ग्रन्थविस्तर - भयान्नोक्ताः ।। संभिद्यन्ते संगच्छन्ते सरितोऽत्र परस्परमिति संभेदः । 'भिदिर् विदारणे ’। सिन्ध्वोः संगम: सिन्धुसंगमः | अनेकसिन्धुसंगमनाम ॥ ३४ - २॥ 3 शराख्य: तृणविशेष: Pt2. 5 चन्द्र इति गिरिविशेषनाम A; चन्द्रस्य 7 कवेराजाता Y. 1 शणदत्तनदीनाम W.. 2 कोलति संस्त्यायतीति Pt2. 4 वेत्रा वेणव: B1, K5, U; वेत्रयोगात् Pt2. भागोंऽशः अस्या: Wi. 8 नद्य: Pt2. 6 सरति, 'सृ गतौ ' D2, U, W1. (पा.) शोणो–स्यात् । शोणनदीनामनी ॥ कुल्या – सरित् । कृतकाल्पनी कुल्या स्यात् । 'कालुव' || शरावती वेत्रवती चन्द्रभागा । अस्य सुभूतिटीकायां चातूरूप्यमभिहितम् । चन्द्रभागा, चन्द्रभागी, चान्द्रभागा, चान्द्रभागीति ॥ सरस्वती - अन्याञ्च | शरावत्यादयः पञ्च | तुङ्गभद्रा गोदावरी कृष्णवेण्यादयोऽन्याञ्च नद्यः ॥ संभेदः सिन्धुसंगमः । नदीसंगमनाम ॥३४-५ ॥ 1°नद° AI. 2 B3, B4 add :. द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ । देविकायां सरय्वां च भवे दाविकसारवौ ॥ ३६ ॥ सौगन्धिकं तु कहारं हल्लकं रक्तसंध्यकम् । (वि.) द्वयोरिति – प्रणलत्यम्भोऽनया प्रणाली । ‘णल गतौ ' । प्रणाल इति वा पाठः । प्रासादादौ निर्मितजलमार्गनाम ॥ उत्तरे पदे त्रिषु वर्तेते । देविकायां भवः