पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२. वारिवर्गः] दाक्षिणात्यव्याख्योपेतः तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः । स्यात् कुलीरः कर्कटक: कूर्मे कमटकच्छपौ ॥ २१ ॥ १६९ (वि.) तद्भेदा इति – शिशून् मारयतीति शिशुमारः । ‘मृङ् प्राणत्यागे' । उनक्तीत्युद्रः । 'उन्दी क्लेदने' । शङ्कतेऽस्मात् लोकः शङ्कः । 'शकि शङ्कायाम् ' । मायां करोतीति मकरः । ‘डुकृञ् करणे' । प्राणिकबलने मुखं किरतीति वा । 'कृ विक्षेपे' । आदिशब्देन जलहस्तिग्राहादयः । एवमादीनि यादोभेदनामानि || कौ भूमौ लीयत इति कुलीरः। ‘लीङ् श्लेषणे' । 'कुली: परलोकाय ईरयतीति वा । ' ईर प्रेरणे' । कृणाति जननीं कर्कटकः । ‘कृ हिंसायाम्' । कर्कटनामनी ॥ कुत्सितः ऊर्मि: वेगोऽस्य कूर्मः । कं जलम् ऊर्वति प्राणिभक्षणायेति वा । 'उर्वी हिंसायाम्' । के जले मठतीति कमठः । ' मठ मदनिवासयो: ' । यज्ञार्थं काम्यत इति वा । 'कमु कान्तौ' । कच्छेन पुच्छेन पिबतीति कच्छपः। ‘पा पाने' । कच्छमनूपदेशं पाति क्षुद्रजन्तुभक्षणेनेति वा । ‘पा रक्षणे' । कूर्मनामानि ॥ २१ ॥ 1 मकरादीनि W1. 2 W1 adds मातॄ: · (पा.) तद्भेदा:- मकरादयः । ‘शङ्कुः कच्छपसंस्थानः शिशुमारोऽम्बुमर्कटः । उद्रः स्याज्जलमार्जार आलभ्यश्च।म्बुसूकरः ॥' 3 कुवर्तनाय D.; कैवर्तकाय K.. शिंशुमारादयश्च पूर्वोक्तमकरादयश्च यादोभेदाः । स्यात् – कर्कटकः । कुलीरनामनी । आन्ध्रभाषया 'यंद्रिकाय' । 'पृष्ठचक्षुद्बिंधागति: ' । एते द्वे च । कूर्मे-कच्छपौ । कूर्मनामानि । ‘पञ्चगूढश्चतुर्गतिः' । एते द्वे च ॥ २१ ॥ 1 ' यंद्रिपीत ' B3. ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता । गण्डूपदः किंचुलको निहाका गोधिका समे ॥ २२ ॥ रक्तपा तु जलूकायां स्त्रियां भूम्नि जलौकसः । (वि.) ग्राह इति — गृह्णाति न मुञ्चति प्राणिन इति ग्राहः। ‘ग्रह उपादाने’। अवहरतीत्यवहारः। 'हुन् हरणे' । अवराह इति वा पाठः । तत्पक्षे अवरहयति