पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्ड: - (पा.) सहस्रदंष्ट्र: पाठीनः । बहुदंष्ट्रमीननामनी । 'बेडिशमीनु ' । उलूपी- समौ । शिशुवच्चपलमत्स्यनामनी । 'ससियलु ' ॥ नडमीनश्चि लिचिमः । वृश्चिकाकारमत्स्य- नामनी । ‘तेलुमीनु ' । प्रोष्ठी - द्वयोः । पित्तन्नमीननामनी ॥ १८ ॥ - 1 °मत्स्य ° B3. १६८ क्षुद्राण्डमत्स्यसंघातः पोताधानमयो झषाः ॥ १९ ॥ रोहितो मदुरः शालो राजीवः शकुलस्तिमिः । तिमिंगिलादयश्चाथ यादांसि जलजन्तवः ॥ २० ॥ (वि.) क्षुद्रेति - क्षुद्राणामपरिमितपरिमाणानां मत्स्यानामण्डाज्ज।ताः, तेषां मत्स्यानां संघात: क्षुद्राण्डमत्स्यसंघातः । पोता मत्स्यपोता आधीयन्तेऽस्मिन्निति पोताधानम् । 'डुधाञ् धारणपोषणयोः' । मत्स्यपोतसमूहनामनी || 'रोहितवर्णत्वात् रोहितः । ±जले मज्जतीति मद्गुरः । 'टुमस्जो शुद्धौ' । शलति शीघ्रं गच्छतीति शालः । 'शल चल आशुगमने' । राज्य: ' रेखा अस्य सन्तीति राजीवः । शक्नोति गन्तुं शकुलः । ‘शक्ल शक्तौ' । 'तिम्यतीति तिमिः । 'तिम आर्द्राभावे' । तिमिं गिलतीति तिमिंगिलः। ‘गॄ निगरणे' । एवमादीनि झषभेदनामानि ॥ यान्तीति याददा॑सि । ‘ या प्रापणे ' । यतन्ते हन्तुं मत्स्यानिति वा । 'यती प्रयत्ने' | जले विद्यमाना जन्तवः जलजन्तवः । क्रूरजलजन्तुनाम ॥ १९ - २० ॥ 6 6 1 रक्तत्वात् A, B1, T. 2 B1, Tomit; 'मस्ज मज्जने' A, T, W1. 3 राजय: I. 4 B2 adds आर्द्राक्रियते. 5 जलजन्तुनामानि K3; एते सत प्रत्येकं मत्स्यभेदाः । आदिशब्देन तिलादयोऽपि । यतन्ते बालमत्स्यान् हन्तुं यत्नं (प्रयत्नं U) कुर्वन्तीति वा यादांसि । 'यती प्रयत्ने' W1. (पा.) क्षुद्राण्ड - पोताधानम् । मत्स्यसमूहनामानि ॥ अथो झषः– तिमिंगिला- दयश्च । ‘मकरो मत्स्यराड् झष: ' इति वैजयन्ती (पृ. १५२, लो. ५१ ) । —झषादयः पृथक्पृथङ्मत्स्याः । अथ यादांसि जलजन्तवः । क्रूरजलजन्तवो यादांसीत्युच्यन्ते । ‘अन्तर्जलचरं 'सत्त्वं क्रूरं यादोऽभिधीयते' इति हलायुधः (अ. मा. ३. ३४) ।।१९-२०।। 2 सर्व A1. 1 मकरादय: A1.