पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [ प्रथमकाण्ड: (वि.) आनाय इति – आनीयन्ते मत्स्या अनेनेति आनायः । ‘णीञ् प्रापणे ' । जालवत् गवाक्षवत् तिष्ठतीति जालम् । जले क्षिप्यत इति वा । जालन| मनी ॥ शणमयं सूत्रं शणसूत्रम् | निमज्जनेन जलं पुनातीति पवित्रकम् । निर्मत्स्यत्वेन वा । 'पूञ् पवने' । जालरज्जुनामनी ॥ मत्स्या धीयन्तेऽत्रेति मत्स्यधानी । कुत्सितं वेणन्ते मत्स्या अत्र कुवेणी । ‘वेणृ गतिज्ञानचिन्तानिश।मनवादित्रग्रहणेषु' । मत्स्यकरण्डिकानामनी’ ॥ बलिनो मत्स्यान् श्यतीति बडिशम्' । 'शो तनूकरणे' । मत्स्या विध्यन्ते येन तत् मत्स्यवेधनम्। ‘ व्यध' ताडने' | 'मत्स्यगलग्राहकसामिषवक्रायोमययन्त्रनामनी ॥ १६ ॥ १६६ 1 मत्स्याधानी A, B1, T; 'डुधाञ् धारणपोषणयोः' A. 2 °करण्डक° D2• 3 बलिशं W1; डलयोरैक्यात् I. 4 ' विध विधाने' W1. 2 °वक्राकार ° A. (पा.) आनाय:- जालं स्यात् । जालनामनी । 'वल' | शणसूत्रं पवित्रकम् । जालादिरज्जुनामनी । 'सन्नपुत्रादु' । मत्स्यधानी – स्यात् । मीनकर ण्डिकानामनी । ' मीनबुट्टि' । बडिशं मत्स्यबन्धनम् । मत्स्यग्राहकायोयन्त्रनामनी । 'गालमु' । 6 'अजानन् दाहात्म्यं पततु शलभस्तीबदहने 6 स मीनोऽप्यज्ञानाद् बडिशयुतमश्नातु पिशितम् । ' इति भर्तृहरिः (वै. श. १८) । ‘ 1 बडिशक्रोडपाटलम् । तारकं रसनं नीडमेते टाबन्तकाः स्त्रियाम्' || इति त्रिकाण्डशेषपाठाद् (पृ. ३८,लो. १०४७-८) बडिशेत्यपि स्यात् ॥ १६ ॥ 1 बडिशं तारकं नीडमेते टाबन्तकाः स्त्रियाम् A1, B3. पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः ॥ १७ ॥ विसारः शकली चाथ गडकः शकलार्भकः । (वि.) पृथुरोमेति – पृथूनि रोमाणि मुखदेशे यस्य सः पृथुरोमा । बालमत्स्यान् झषतीति झषः । ‘झष हिंसायाम् ' । माद्यति मांसजिघृक्षया मुह्यतीति मत्स्यः । 'मदि हर्षग्लपनयोः ' । मीयते धीवरेण मीनः । 'मीञ् हिंसायाम् ' | 'मिनोति क्षिपति जलमिति वा । 'डुमिन् प्रक्षेपणे ' । 'विसरतीति विसारी । 'सृ गतौ' । विसारी॰ एव वैसारिणः । अण्डाज्जायत इत्यण्डज: । 'जनी प्रादुर्भावे' । विचित्रं सरतीति विसारः । शकलं