पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ । । (वि.) त्रिष्विति – वक्ष्यमाणागाधपर्यन्ता: 1 शब्दाः त्रिषु वर्तन्ते । प्रसीदतीति प्रसन्नः । ‘षद्ऌ विशरणगत्यवसादनेषु' । न 'छाद्यते दृष्टिरित्यच्छः । 'छद अपवारणे'। निर्मलनामनी ॥ कं जलं लुनातीति कलुषम् । 'लूञ् छेदने' । कं लुषति हिनस्तीति वा । 'लुष हिंसायम्' । 'न अच्छ: अनच्छः । 'आविलतीत्या विलः । ‘विल संवरणे' । अनिर्मलनामानि ॥ खननाय नितरां 'मनतीति निम्नः । 'म्ना अभ्यासे' । 'गमनेन भियं रातीति गभीरं गम्भीरं च । ‘रा दाने'। गां भुवं भियमीरयतीति वा । ' ईर प्रेरणे' । अत्यर्थनिम्ननामानि ॥ उत् ऊर्ध्वं तन्यते उत्तानम् । 'तनु विस्तारे' । निम्नविपर्ययनाम ॥ न गाधम् अगाधम् । नास्ति गाधः प्रतिष्ठा अस्येति वा । 'गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च' । न विद्यते 'तलस्पर्शोऽत्र अतलस्पर्शः । अगाधनामनी ॥ के जले वर्तन्ते इति केवर्ताः मत्स्यादयः, तेषामयं हन्ता कैवर्तः । 'वृतु वर्तने' । विक्रयेण मत्स्यान दाशति दाशः । 'दाट दाने' । दानोति मत्स्यानिति वा । 'दाट हिंसायाम्' । धत्ते मत्स्यानिति धीवरः । 'डुधाञ् धारणपोषणयोः' । ध्यायति मत्स्यानिति वा । 'ध्यै चिन्तायाम्' । जा लिकनामानि ॥ १५ ॥ १२. वारिवर्गः] 1 °पर्यन्तं I. भवतीति B2. ( 5 म्नायते W2, Y, Pt2. दोऽवखण्डने '. १६५ 3 अच्छो न 2 न छयति दृष्टिम् अच्छ:, 'छो छेदने' Pt2. 4 आ समन्तात् बिलतीति (बिल्यते Ptg), 'बिल छेदने, ' वबयोरभेदः I, Y. 6 गमने Pt2. 7 अध: स्पर्श : Pt.. 8 Pte adds द्यति, (पा.) त्रिष्वागाधात् । अगाधशब्दावधि ते त्रिलिङ्गाः त्रिष्विति पुनर्ग्रहणात् । प्रसन्नोऽच्छः। निर्मलनामनी । 'तेट' | कलुषो - आविलः । 2 अनिर्मलनामानि । 'कलंकुट' | निम्नं – गम्भीरम् । अत्यर्थनिम्ननामानि | उत्तानं तद्विपर्यये । निम्नविपर्यय- नाम | अगाधमतलस्पर्शः । तलस्पर्शविहीननाम ॥ कैवर्ते – धीवरौ । जालिकनामानि ॥ ‘श।ल’ … … … … … दाशपुरीशे ' – इत्यूष्मभेदपाठात तालव्यः । ‘कैवर्तभृत्ययोर्दासो दासी चाणा च चेटिका' इति रुद्राभिधानकोशपाठाद् दन्त्यः ॥ १५ ॥ 1 नैर्मल्य° A1. 2 अनैर्मल्य° A1. 3 B3 adds दाश इत्यत्र; gap in A1, B3. आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम् ॥ १६ ॥ मत्स्यधानी कुवेणी स्याद् बडिशं मत्स्यवेधनम् |